SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ शरीरं स जीवस्तस्मादन्य इति । आदिमत्त्वविशेषणं जम्बूद्वीपादिलोकस्थितिनिषेधार्थम् । विद्यमानाधिष्ठातृकाणीन्द्रियाणि, करणत्वात् , इह यत् करणं तद् विद्यमानाधिष्ठातृकं दृष्टम् , यथा दण्डादयः कुलालाधिष्ठिताः; यच्चाविद्यमानाधिष्ठातृकं न तत् करणम् , यथाऽऽकाशम् , यश्चैषामधिष्ठाता स जीवस्तेभ्योऽर्थान्तरमिति । विद्यमानादातृकमिदं इन्द्रियविषयकदम्बकम् , आदाना-ऽऽदेयभावात् , इह यत्राऽऽदाना-ऽऽदेयभावस्तत्र विद्यमानादातृकत्वं दृष्टम् , यथा संदंशा-ऽयःपिण्डयोरयस्कारादातृकता; यच्चाविद्यमानादातृकं न तत्राऽऽदाना-ऽऽदेयभावः, यथाऽऽकाशे, यश्च विषयाणामिन्द्रियैरादाता स तेभ्योऽर्थान्तरमात्मेति । विद्यमानस्वामिकमिदं (विद्यमानभोक्तृकमिदं) शरीरम्, इन्द्रियादिभोग्यत्वात्, इह यद् भोग्यं तद् विद्यमानभोक्तृकं दृष्टम् , यथाऽऽहार-वस्त्रादि; यच्चाविद्यमानभोक्तृकं न तद् भोग्यम् , यथा खरविषाणम् , यश्चैषां शरीरादीनां भोक्ता स तेभ्योऽर्थान्तरमात्मेति । विद्यमानस्वामिकमिदं शरीरम् , इन्द्रियादिसङ्घातत्वात् , यत् सङ्घातात्मकं तद् विद्यमानस्वामिकं दृष्टम् , यथा गृहम् ; यच्चाविद्यमानस्वामिकं तदसङ्घातात्मकम् , यथा खरविषाणम् , यश्चैषां शरीरादीनां स्वामी स तेभ्योऽर्थान्तरमात्मेति । यश्चायं कर्ता अधिष्ठाताऽऽदाता भोक्ता अर्थी चोक्तः स शरीरादन्यो जीवः, तथा चैवोदाहृतम् । स्यात्-कुलालादीनां मूर्तिमत्त्व-सङ्घाता-ऽनित्यत्वादिदर्शनादात्मनोऽपि तद्धर्मता, सा तैर्विरुद्धा प्रायः, तच्च न, संसारिणः खल्बदोषोत्, संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायाम् । अयं चानादिकर्मसन्तानोपनिबन्धनत्वाद् द्रव्य-पर्यायार्थिकनयाभिप्रायाच्च तद्धर्माऽपीत्यदोषः । किञ्च-योऽयं जातिस्मरः स अविनष्ट इहायातः, तदनुभूतानुस्मरणात्, योऽन्यदेश-कालानुभूतमर्थमनु १ कुलालाधिष्ठितारः, यच्चा चूसप्र०॥ २ यथाऽयं चूसप्र० ॥ ३ अर्थाचोक्तः शरी' चूसप्र०॥ ४ तद्धर्मतासक्तविरुद्धाभिप्रायः विखो०॥ ५ दोषाः विस्खो० ॥ ६ सन्तानोपिनिब° चूसप्र० ॥ ७ इहार्थतः, तद विस्वो० ॥ Jain Educati o nal For Private & Personal Use Only ainelibraryong
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy