________________
स्यान्मतिः-साधूक्तम् , यत् पृथगपि मद्याङ्गेषु मदसामर्थ्यमस्ति, एतदेव हि व्यस्तभूतचेतनायामुदाहरणम् । इह Ill व्यस्तेष्वपि भूतेषु चैतन्यमस्ति, तत्समुदये देरिसणा, मद्याओं मदवत्, यथा मद्यानेषु मदः पृथगणुत्वान्नातिस्पष्टः, तत्समुदये तु
व्यक्तिमेति, तथा पृथग भूतेष्वणीयसी [चेतना तत्समुदाये भूयसी] भवतीति, उच्यते-यथाऽऽत्थ त्वं भूतसमुदयगुणाभिप्रायतो 'चेतनायाः तत्समुदये दर्शनात्' इत्ययमसिद्धः, न हि भूतसमुदयस्येयं चेतना, यदि भूतसमुदयस्येयं भवेद् व्यस्तभूतचैतन्यमपि प्रतिपद्येमहि । आह-ननु प्रत्यक्षविरुद्धमिदम् , यत् समुंदयोपलभ्या चेतना न समुदायस्येति, यद्वद् घटोपलभ्या रूपादयो न घटस्येति, [उच्यते-] न हि समुदयदर्शनादवश्यं तद्गुणत्वम् , अनुमानसद्भावात् , घटरूपादयस्त्वर्थान्तरस्येति नानुमान| मस्ति, भवत एव हि प्रत्यक्षविरुद्धमिदं भूतचैतन्यप्रतिज्ञानम्, [अनुमानाभावात् , भूतविशिष्टमात्रपुद्गलानामेव, न | | सात्मकानाम् , अविप्रतिपत्तेः । आह-न भूतसमुदयस्य चैतन्यमिति किमनुमानम् ? उच्यते-भूतेन्द्रियातिरिक्तः सञ्चेतयिता, तदुपलब्धार्थानुस्मरणात् , यो हि यैरुपलब्धानर्थानेकोऽनुस्मरति स तेभ्योऽन्यो दृष्टः, यथा गवाक्षरुपलब्धानर्थाननुस्मरन तेभ्यो देवदत्तः, यश्च यतो नान्यो नासावेकोऽनेकोपलब्धानामर्थानामनुस्मर्त्ता, यथा मनोविज्ञानम् । इतश्चेन्द्रियातिरिक्तो विज्ञाता, [तदुपरमेऽपि ] तदुपलब्धार्थानुस्मणात् , यो हि [ यदुपरमेऽपि] यदुपलब्धानामर्थानामनुस्मर्ता स तेभ्योऽन्यो
१ हस्तचिह्नमध्यगतः समग्रोऽपि चूर्णिग्रन्थसन्दर्भः विशेषावश्यकखोपज्ञटीकायां "भूताणं पत्तेयं०" प्रभृतिगाथाटीकारूपेण वर्त्तते । यचात्र कोष्ठकान्तरनुसन्धितं तत् तत एवेति ज्ञेयम् ॥ २ दर्शना, मद्यावा. मो० । दर्शनात्, मद्या विखो० मु० ॥ ३ मुदायों वा० मो० ॥ ४ चैतन्यं प्रतिज्ञानम् वा. मो० मु०॥ ५ मात्र पुगवा मो• मु०॥ ६°मेव तदात्मका मु०॥ यथा विवृतगवा: विस्खो० ॥ ८ यतोऽनन्यो विस्खो० ॥
Jain Education
Donal
For Private & Personal Use Only
Jainelibrary.org