SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ णिन्जुत्तिचुण्णिजयं सूयगडंग ॥ २४० ॥ भूमिक्खयसाभावियसंभवतो ददुरो व्य जलमुत्तं । अधवा मच्छो व्व सभाववोमसंभूतपातातो ॥ १ ॥ [ विशेषा० गा० १७५७ ] सात्मकं तोयं भौमम्, कुत: ?, समानजातीयस्वभावसम्भवात्, दर्दुरवत्; अथवा अन्तरीक्षम्, अभ्रादिविकारस्वभावसम्भूतपातान्, मत्स्यवत् । ग्रहणकवाक्यम् — इन्धनसंयोगात् तेजसां तेजः सात्मकम्, आहारोपादानात् तद्वृद्धिविशेषोपलब्धेः तद्विकारदर्शनाच्च पुरुषवत् । ग्रहणकवाक्यम् - गतिमत्त्वाद् वायुर्जीवः, प्रयत्नगतेः यस्मादयं सविक्रम इव पुमान् तीव्र - मन्द-मध्यान् गतिविशेषान् स्वन महिना श्रयतीति, वेगवत्त्वाच वृक्षादीनुन्मूलयति इत्यतो गतिमत्त्वाद् वायुर्जीवः । सात्मकाः वनस्पतयः, जन्म-जरा-जीवन-मरणसद्भावात्, स्त्रीवत् । आह- नन्वयमनैकान्तिकः, जाताख्या: ( द्याः ) विपक्षेऽपि दर्शनात्, तद्यथा-जातं दधि, जीर्णं वासः, सञ्जीवितं विषम्, मृतं कुसुम्भकमित्यादि, उच्यते, न, वनस्पतौ समस्तलिङ्गोपलब्वे:, दध्यादावसमस्तदर्शनादुपचारत: जातमिति (जातादीनि ) । इतच सात्मका वनस्पतयः, क्षतसंरोहणाद् आहारोपादानाद् दौहृदसद्भावाद् [ आमयसद्भावाद् ] रोगचिकित्सासद्भावात् । दौहृदादौ सम्भवतः कुष्माण्ड्यादीनां 'विशेषपक्ष: ' विशेषश्चासौ पक्षच विशेषपक्षः कर्त्तव्यः ॥ १रीक्षमानभ्र' पु० सं० । 'रीक्ष्यमानम्रा' वा० मो० । 'रीक्षेमभ्रा' विखो० । “सात्मकं भौमं जलम् क्षलसमानजातीय स्वभावसम्भवात्, दर्दुरवत् । अथवा अन्तरिक्षम्, अभ्रादिविकारस्वभावसम्भूतपातात्, मत्स्यवत् । " इति कोट्याचार्ययवृत्ती पत्र ५४६ ॥ २ कः विपक्षेsपि विखो० । “आह - सर्वेऽनैकान्तिकाः, विपक्षेऽपि दर्शनात् । तद्यथा- आतं दधि अचेतनं च एवं जीर्ण वासः, सञ्जीवितं विषम्, मृतं कुसुम्भकमित्यादि” इति कोट्याचार्यवृत्तौ ॥ ३ ण्डयादीन् विशेष्य पक्षः कर्त्तव्यः क्खिो० ॥ Jain Education atonal For Private & Personal Use Only KKKK * * ** पढमो सुयक्खंधो ११ मग्ग झयणं ॥ २४० ॥ ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy