________________
अत्थि पोग्गले, णो भणामि पत्थि त्ति पोग्गले, जपि भणामि तं पि भणामीत्यवचनीयम् , अवचनीयं एव अवचनीयः, K स्कन्धमात्रमिति । वैशेषिकाणामपि-अन्येषां न (?) द्रव्याणि नवैव, अन्येषां दश दशैव । सायानामपि अन्येषां इन्द्रियाणि
सर्वगतानि, एवं तेषां मिथ्यादर्शनप्रत्ययिकं अनुसमयमेव कर्म बध्यते । दृष्टान्तः-जातस्स बालस्स पकुव्व देहं, जातस्येति गर्भत्वेनोत्पन्नस्य, तद्यथा-निषेकात् प्रभृतिरारभ्य शरीरवृद्धिर्भवति यावद् गर्भान्निःसृतः, आबाल्याच्च प्रवर्द्धते यावत् प्रमाणस्थो जातः । शरीरवृद्धिरिह काल-क्षेत्र-बायोपकरणात्मसान्निध्यायत्ता यतः अत उच्यते-प्रकुर्व इव प्रकुर्वन् , यथा तस्यानुसामयिकी शरीरवृद्धिः एवं तेषामपि मिथ्यादर्शनप्रतिपत्तिकालादारभ्य तत्प्रत्ययिक वैरं प्रवर्द्धते कर्म, वैराज्जातं वैरम् , यथा धेरै दुःखोत्पादकं वैरिणां एवं कर्मापि । यद्यप्याकाशे निश्चल उपतिष्ठतेऽविरतस्तथाऽप्यस्य कर्म वध्यत एव । पठ्यते च"जाताण बालस्स पगब्भणाए" जातानामिति गर्भपाकान्निस्सृतानाम् , प्रगल्भं नाम धार्यम् , हिंसादिकर्मस्खभिरतिरभिनिवेशो निश्शङ्कता चेति । अतः पवड्ढते वेरमसंजतस्स ।। १७ ।।
४८९. आयुक्खयं चेव अबुज्झमाणे, ममाति से सहस्सकारि मंदे।
अहो य रोतो य परितप्पमाणे, अहे सुमुढे अजरा-ऽमरे व ॥१८॥ ४८९. आयुक्खयं चेव अबुझमाणे- वृत्तम् । स एवं हिंसादिकर्मसु प[स]जमानः कामभोगतृषितः छिन्नहदमत्स्यवदुदकपरिक्षये आयुषः क्षयं न बुध्यते । उजेणीए वाणियगो रयणाणि कधं पवेस्सस्सामि ?' त्ति रजनिक्षयं न बुध्यते
१ अवचनीय एव पु० । अवचनं एव वा०॥ २ आउक्त खं १ ख २ पु १ पु २॥ ३ साहसकारि खं १ खं २ पु १ पु २. दी०॥ ४त खं १॥ ५रातो परि खं १ खं २ पु १पु२॥ ६ अपरा खं १ पु१। अइरा खं २ ॥
KOKAKKOKAIXoKOKALKO-Kor
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org