________________
णिज्जुत्ति- चुण्णिजुयं सूयगडंग
। पढमो सुयक्खंधो
९ धम्मज्झयणं
॥ २१५॥
कलत्र-मित्र-वित्तादिषु बाह्या-ऽभ्यन्तरेषु वस्तुषु ममता विद्यते इति निर्ममः, न चाहङ्कारः पूर्वैश्वर्य-जात्यादिषु च संप्राप्तेष्वपि, तपःस्वाध्यायादिषु चरेदित्यनुमतार्थः, जिणाहितं आख्यातं, मार्गमित्यर्थः, चारित्रं तपो वैराग्यं वा ॥६॥ स एवं मत्वा 'नैते मात्रादयो नाम सम्बन्धिनः त्राणाय' इति, इत्यतः४४१. चेचा पुत्ते य मित्ते य णातओ य परिग्गहं ।
चेचीण अत्तगं सोतं णिरवेक्खो परिव्वए ॥७॥ ४४१. चेचा पुत्ते य मित्ते य० सिलोगो । पुत्रे ह्यधिकः स्नेहः तेनाऽऽदौ ग्रहणं क्रियते । मित्ता तिविधा सहजातकादयः । ज्ञातकाः पूर्वा-ऽपरसम्बन्धिनः । परिग्रहो हिरण्यादि । चेचाण अत्तगं सोतं, त्यक्त्वा चेचाण, आत्मनि भवं आत्मकम् । तत्र मित्र-ज्ञातयः परिग्रहाश्चैव बाहिरंगं सोतं, मिच्छत्तं कसाया अण्णाणं अविरती य एतं अत्तगं सोतं, श्रोतः द्वारमित्यर्थः । पठ्यते च-"चेच्चा अणंतगं सोतं" अणंता अण्णाणा-ऽविरती-मिच्छत्तपज्जवा, उभयमवि चेचा । णिरवेक्खो परिव्वए, औजगं धम्ममणुपालेंतो न पुत्र-दारादीनि पुनरपेक्षते । उक्तं हि-'छलिता अवयक्खंता णिरावयक्खा गता मोक्खं ।" [
। स एवं प्रव्रजितः स्वरुचिनाऽवस्थितात्मा अहिंसादिषु व्रतेषु प्रयतेत ॥ ७ ॥
॥ २१५॥
१चेच्चा वित्तं च पुत्ते य णायओखं १ ख २ पु १ पु २ बृ० दी० ॥ २चेच्याण अंतगं सोयं खं १ ख २ पु १ पु २ वृ दी। चेच्चाण अंतकं सोयं इति चेच्याण अत्तगं सोयं इति चेञ्चाणणंतगं सोयं इति च पाठभेदत्रयी वृत्तौ दृश्यते । चेच्चा अणंतगं सोयं चूपा०॥
Jain Education
For Private & Personal Use Only
SAIRainelibrary.org.