SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ भिक्षुत्तिमुग्गिजुयं व्यगडंग पढमो सुयक्खंधो ॥१८९॥ ७ कुसीलपरिभासियज्झयणं ३८५. हरिताणि भूताणि विलंबगाणि० वृत्तम् । हरितग्रहणात् सर्व एव वनस्पतिकाया गृह्यन्ते, नीला हरितामा आर्द्रा इत्यर्थः, हरितादयो वा वनस्पतयः । भृतानि जङ्गमानि । विलम्बयन्तीति विलम्बकानि, भूतखभावं भूताकृति दर्शयन्तीत्यर्थः । तद्यथा-मनुष्ये निषेक-कलला-र्बुद-पेशि-व्यूह-गर्भ-प्रसव-बाल-कौमार-यौवन-मध्यम-स्थाविर्यान्तो मनुष्यो भवति । एवं हरितान्यपि शाल्यादीनि जातानि अभिनवानि सस्थानीत्यपदिश्यन्ते, सञ्जातरसाणि यौवनवन्ति, परिपक्कानि जीर्णानि, परिशुष्कानि मृतानीति । तथा वृक्षः अङ्कुरावस्थो जात इत्यपदिश्यते, ततश्च मूल-स्कन्ध-शाखादिभिर्विशेषैः परिवर्द्धमानः पोतक इत्यपदिश्यते, ततो युवा मध्यमो जीर्णो मृतश्चान्ते स इति । एवं भूतविलम्बितं कुर्वन्ति । कारणेन कार्यवदुपचारात्, आहारमया हि देहा देहिनाम्, अन्नं वै प्राणाः, आहाराभावे हि वृक्षा हीयन्ते म्लायन्ते शुष्यन्ते च मन्दफलाश्चाफलाश्च | भवन्ति । पुढो सिताणि पृथक् पृथक् श्रितानि, न तु य एव मूले त एव स्कन्धे, केषाश्चिदेकजीवो वृक्षः तब्युदासार्थ पुढोसिताई ति । तान्येवम् संखेजजीविताणि [असंखेजजीविताणि] अणंतजीविताणि बा। जो छिंदति आतसातं पडुच्च, आत्म-परोभयसुह-दुःखहेतुं वा आहार-सयणा-ऽऽसणादिउवभोगत्थं । प्रागल्भिप्राज्ञो नाम निरनुक्रोशमतिः, उपकरणद्रव्याण्येतानि । बहुणं निवाति त्ति एगमपि छिन्दन बहून् जीवान् निपातयति, एगपुढवीए अणेगा जीवा ॥ ८॥ किञ्च ३८६. जाइं च बुढेि च विणासयंते, बीयादि अस्संजय आतदंडे। अधाहु से लोए अणजधम्मे, बीयादि जे हिंसति आतसाते ॥९॥ १जतियायदंडे खं २ पु १ पु २ ॥ २ लोते खं २ पु १॥ ३ हरियादि खं २ पु १ पु २॥ ॥ ८९॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy