SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ झानानि त्रीणि दर्शनानि, भास्कर इव सर्वतेजांस्यभिभूय केवलदर्शनेन जगत् प्रकाशयति । ज्ञानीति एवं केवलज्ञानेनापि अभिभूय इति वर्तते, उभाभ्यामपि कृत्स्नं लोका-ऽलोकमवभासते । अथवा लौकिकानि अज्ञानान्यभिभूय केवलज्ञान-दर्शनाभ्यां खद्योतकानिवाऽऽदित्यः एकः प्रकाशते । णिरामगंधे धितिमं ठितप्पा, निरामोऽसौ निर्गन्धश्च, आम इति उद्गमकोटिः । धृतिरस्यास्तीति धृतिमान् संयमे धृतिः। संयम एव यस्य स्थित आत्मा धर्मे वा सो ठितप्पा । अणुत्तरं सबजगं सि विजं, नास्योत्तरं सर्वलोके यः कश्चिद् विद्वानित्यतः सर्वलोकं स विद्वान् । विजं नाम विद्वान् । ग्रन्थादतीते ति गंथातीते । दव्वगंथो सचित्तादि, भावे कोधादि, द्विधाऽप्यतीतः, निर्ग्रन्थ इत्यर्थः। अथवा ग्रन्थनं ग्रन्थः स्वाध्याय इत्यर्थः तमतीतः, कोऽर्थः ? नासौ श्रुतज्ञानेन जानीत इत्यर्थः । अभए इति अभयं करोत्यन्येषां न च स्वयं बिभेति । अनायुरिति नास्याऽऽगमिष्यं जन्म विद्यते आगमिष्यायुष्कबन्धो वा ॥ ५॥ ___३५४. से भूतिपण्णे अणिएतचारी, ओघंतरे धीरे अणंतचक्ख । अणुत्तरं तवति सूरिए व, वैरोयणेदो व तमं पगासे॥६॥ ३५४. से भूतिपण्णे अणिएतचारी० वृत्तम् । भूतिर्हि वृद्धौ रक्षायां मङ्गले च भवति । वृद्धौ तावत्-प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, रक्षायाम्-रक्षाभूताऽस्य प्रज्ञा सर्वलोकस्य सर्वसत्त्वानां वा, मङ्गलेऽपि-सर्वमङ्गलोत्तमोत्तमाऽस्य प्रज्ञा । अनियतं चरतीति अनियतचारी । ओघो द्रव्यौघः समुद्रः, भावौघः संसारः, तं तरतीति ओघंतरः । दधातीति धीरः। १ तप्पति सूरिए वा, वइरोयर्णिदे व खं १ खं २ पु १ पु २ । सूरिते खं २ पु १॥ २ वृद्धौ मङ्गले रक्षायां च चूसप्र० ॥ | ३°भूतस्य चूसप्र०॥ XXXXXXXX** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy