________________
२६९. अण्णं मणेण चिंतेंति, अण्णं वायाइ कम्मुणा अण्णं ।
तेम्हा णो सद्दहेतव्वं, बहुमायाओ इथिओ णच्चा ॥ २४ ॥ २६९. अण्णं मणेण चिंतेंति० वृत्तम् । कथम् ? क्षणरागत्वात् । तद्यथाआचार्या मर्कटा बालाः स्त्रियो राजकुलानि च । मूर्खा भण्डाश्च नीचाश्च विज्ञेयाः क्षिप्ररागिणः ॥१॥
यतश्चैवं तम्हा णो सद्दहेतव्वं, यदि नाम हाव-भावादीनाकारान् कुर्यात् , वायाए वा पत्तियावेज, एवमादि तासां विज्ञाप्यं न श्रद्धेयम् ।
दत्तो वैशिकः किल एकया गणिकया तैस्तैः प्रकारैर्निमत्रीयमाणोऽपि नेष्टवान् तदाऽसावुक्तवती-त्वत्कृतेऽग्निं प्रविशामीति । तदाऽसौ यद् यत् तयोच्यते तत्र तत्रोत्तरमाह 'एतदप्यस्ति वैशिके । तदाऽसौ पूर्वसुरुङ्गामुखे काष्ठसमूहं कृत्वा तं प्रज्वाल्य तत्रानुप्रवेश्य सुरुङ्गया स्वगृहमागता । दत्तकोऽपि च एतदप्यस्ति वैशिके। एवं विलपन्नपि धूतैर्वार्त्तिकैश्चितकायां प्रक्षिप्तः । एवं तम्हा तु णो सद्दहितव्वं ॥२४॥
१ वाया अण्णं च क खं २॥ २ तम्हा ण सद्दहे भिक्खू, बहु सं १ खं २ पु १ पु २ वृ० दी० ॥ ३°रागित्वा पु० सं०॥
Jain Education international
For Private & Personal Use Only
www.jalnelibrary.org