________________
व्यम् । संयतो नाम विरतः, निवृत्त इत्यर्थः । सम्वद्वेसु सदा अणिस्सिते ति सब्वेसु इंदियत्थेसु यावंतो वा असंयमार्थाः अथवा ऐहिका-ऽऽमुष्मिकेषु अणिस्सितो णाम नाऽऽकाङ्क्षति । हरदे वतुमे (? पतुमे) अणाउले, हरदे त्ति महासमुद्रः, स हि नक्रादिभिर्महामत्स्यैः स्फुरद्भिरपि नाऽऽकुलजलो भवति, न क्षुब्धजल इत्यर्थः, पद्म-महापद्मादयो बा ह्रदाः स्वच्छ-प्रसन्न-गम्भीरजलाः, गम्भीरत्वादनाकुलाः; एवमसावपि पूर्वा-ऽपरशेयपरिशुद्धस्वच्छज्ञानवान् प्रसन्नवाङ्-मनाः न च परप्रवादिभिः शक्यते विक्षोभयितुं इत्यनाकुलः । कोधादीहि वा अणाइलो । अधवा अणाइल इति निरुद्धाश्रवः, अनातुरो न म्लायति धर्म कथयन् । धम्मं प्रादुरकासि कासवं ति, प्रादुः प्रकाशने, स भगवान् आर्यसुधर्मः अण्णतरो वा गणधरो हद इवानाकुलः धर्म प्रादुरकार्षीत् , एवमन्येऽपि स्थविराः प्रादुरकार्षीत् ( ? कार्युः ) प्रादुष्कुर्वन्ति करिष्यन्ति च । कश्यपस्यायं काश्यपः, स एवंलक्षणकं | धर्म अहिंसादिलक्षणं धर्म कथयति ॥ ७ ॥ तं जधा
११७. बहवो पाणा पुढोसिया, पत्तेयं समियं उवेहाए।
जे मोणपदं उवहिते, विरतिं तत्थमकासि पंडिते ॥८॥ ११७. बहवो पाणा पुढोसिया० वृत्तम् । अथवोपदेश एवायम्-बहवो प्राणा पुढोसिता, बहव इति अनन्ताः, पृथक् पृथक् सिता पुढोसिता, तं जधा-पुढविकाइयत्ताए । तेषां तु प्रत्येकं अनन्तानामप्येको धर्मः समान एव 'सुखप्रिय
१हरदे वतुमे पद्मनामा हद इत्यर्थः॥ २ समयं समीहिया वृ० । समयं उवेहिया खं १ ख २ पु १ पु २ वृपा० दी० । समिया उवेहिता चूपा०॥ ३ विरती तत्थ अकासि खं १ खं २ पु १पु २ । विरती स्थाने पु१विरयं इति पु २ विरई इति च पाठभेदः ॥
Jain Educa
For Private & Personal Use Only
www.jainelibrary.org