SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXX इति फलमतिरम्यं चक्रदेवस्य सम्यक्, प्रतिभवमपि शाठथाभावभाजो निशम्य । भवत भविकलोका ! स्पष्टसतोषपोषाः, कथमपि हि परेषां वञ्चनाचञ्चवो मा ॥१६१॥ इति चक्रदेवचरितं समाप्तम् । उक्तो शठ इति सप्तमो गुणः॥७॥ इदानीं सुदाक्षिण्य इत्यष्ठम गुणं विवृण्वन्नाह उवयरइ सुदक्खिण्णो, परेसिमुज्झिय सकज्जवावरो। तो होइ गज्झवको, णुवत्तणीओ य सव्वस्स ॥ १५॥ 'उपकरोति' उपकारतया प्रवर्ततेऽभ्यर्थितसारतया 'सुदाक्षिण्यः' शोभनदाक्षिण्यवान् । कोर्थः ? यदिह परलोकोपकारि प्रयोजनं तस्मिन्नेव दाक्षिण्यवान्, न पुनः पापहेतावपीति सुशब्देन दाक्षिण्यं विशेषितम् । 'परेषाम् अन्येषाम् । कथम् ? इत्याह 'उज्झितस्वकार्यव्यापारः' परित्यक्तात्मप्रयोजनप्रवृतिः । 'ततः कारणाद् 'भवति ग्राह्यवाक्य अनुल्लङ्घनीयादेशः, तथा 'अनुवर्तनीयच अभीष्टचेष्टितच 'सर्वस्य धार्मिकलोकस्य । स हि किल सुदाक्षिण्यगुणेनाकामोऽपि धर्ममासेवते । क्षुल्लककुमारवत् । क्षुल्लककुमारकथा चैवम् RECEBSRKI For Private Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy