________________
धर्मरत्न प्रकरणम् २५
अशठत्वगुण ७
यदुक्तम्"मायाशील: पुरुषो, यद्यपि न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो, भवति तथाप्यात्मदोषहतः॥१॥"
(प्रशम० गा० २८) तथा 'प्रशंसनीय श्लाघनीयश्च स्यादशठ इति प्रक्रमः।
यदवाचि“यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ॥ १॥"
तथा 'उद्यच्छति' प्रैयतते धर्मानुष्ठान इति शेषः। 'भावसारं सद्भावसुन्दरं स्वचित्तरञ्जनागुगतं, न पुनः पररञ्जनायेति। दुःप्रापं च स्वचित्तरञ्जनम् ।
तथा चोक्तम्"भूयांसो भूरिलोकस्य, चमत्कारकरा नराः । रञ्जयन्ति स्वचितं ये, भृतले तेत्रं पञ्चषाः॥१॥"
तथा"कृत्रिमैडम्बरैश्वित्रैः, शक्यस्तोषयितुं परः । आत्मा तु वास्तवैरेव, हेन्त ! कः परितुष्यति ॥२॥" इति ।
'उचितो' योग्यो 'धर्मस्य' पूर्वव्यावर्णितस्वरूपस्य । 'तेन' कारणेन 'एषः' अशठः । सार्थवाहपुत्रचक्रदेववत् । १ लभ्यते । २ प्रवर्तते क। ३ ते तु.. क । ४ °हतकः ग ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org