________________
' इहलोकविरुद्धं ' परनिन्दादि,
यदुक्तम्
" सव्वस्त चैव निंदा, विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥ १ ॥ बहुजणविरुद्धसंगो, देसादाचारलंघणं तेह य । उव्वणभोगो य तहा, दाणाइ वि पंयडमन्नेसिं ॥। २ ।।” साहुवसणम्मितोसो, सइ सामत्थम्मि अपडियारो य । ऐमाइयाई इत्थं, लोगविरुद्धाई नेयाणि ॥ ३ ॥ " इति । ( पञ्चा १२, गा ८-१० )
'परलोकविरुद्धं' खरकर्मादि ।
तद्यथा
बहुधा खरकर्मित्वं, सीरपतित्वं च शुल्कपालत्वम् । विरतिं विनाऽपि सुकृती, करोति नैवंप्रकारमयम् ॥ १ ॥।” 'उभयलोकविरुद्ध' द्यूतादि ।
तद्यथा
“द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धि चौर्य परदारसेवा । एतानि सप्त व्यसनानि लोके, पापाधिके पुंसि सदा भवन्ति ॥ | १ || इहैव निन्द्यते शिष्टैर्व्यसनासक्तमानसः । मृतस्तु दुर्गतिं याति गतत्राणो नराधमः ।। २ ।। " इति । अयमभिप्रायः–एतानि कर्माणि लोकवैमुख्यकारणानि परिहरन्नेव शिष्टजनप्रियो भवति, धर्मस्यापि स एवाधिकारीति । तथा दानं त्यागः विनयः - उचितप्रतिपत्तिः शीलं - सदाचारपरता, एमिराढ्यः - परिपूर्णो यः स लोकप्रियो भवति ।
१° चेव ° ग । २° पगडमण्णे तु ग । ३° एमाइयाणि एत्थं लोगविरुद्धाणि ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org