SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् रूपवगुणः२ ११ उक्तोऽक्षुद्र इति प्रथमो गुणः सम्प्रति द्वितिय रूपवद्गणमाह ___ संपुण्णंगोवंगो, पंचिंदियसुंदरो सुसंघयणो । ___ होइ पभावणहेऊ, खमो य तह रूववं धम्मे ॥९॥ सम्पूर्णानि-अन्यूनानि अङ्गानि-शिर-उर-उदरमभृतीनि उपाङ्गानि च-अङगुल्यादीनि यस्य स सम्पूर्णाङ्गोपाङ्गः, अव्यङ्गिताङ्ग इत्यर्थः । 'पञ्चेन्द्रियसुन्दर काणकेकरबधिरमूकत्वादिविकल इत्यभिप्रायः । "सुसंघयणु" ति शोभनं संहननं-शरीरसामर्थ्य यस्य, न पुनराद्यमेव, संहननान्तरेऽपि धर्मप्राप्तः, "सव्वेसु वि संठाणेसु लहइ एमेव सव्वसंघयणे" इति वचनात , सुसंहननः, तपःसंयमाधनुष्ठानसामोपेत इत्याकूतम् । एवंविधस्य धर्मप्रतिपत्तो फलमाह-'भवति' जायते 'प्रभावनाहेतु: तीर्थोन्नतिकारणम्, तथा 'क्षमश्च' समर्थो रूपवान् 'धर्मे' धर्मकरणविषये स्यात्, सुसंहननत्वात्तस्येति, सुजातवत् । नच नन्दिषेणहरिकेशबलादिभिर्व्यभिचार उद्भावनीयः, तेषामपि सम्पूर्णाङ्गोपाङ्गत्वादियुक्तत्वात, मायिकं चैतत्, शेषगुणसद्भावे कुरूपत्वस्य गुणान्तराभावस्य चादुष्टत्वात् , अत एव वक्ष्यति-"पायऽद्धगुणविहूणा एएसि मज्झिमावरा नेया" इति । सुजातकथा चेयम्रिउचक्कअकंपाए, चंपाइ पयावविजियमित्तपहो । मित्तपहो नाम निवो, सधम्मिणी धारणी तस्स ॥१॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy