SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ दोपविशेषवेदीति १६ ॥ "वुड्ढाणुगो" इत्यादि, 'वृद्धानुगः' परिणतमतिपुरुषसेवकः १७ । 'विनीत' गुणाधिकेषु गौरवकृत् १८। 'कृतज्ञः' परोपकाराविस्मारकः १९ । 'परहितार्थकारी' निरीहः सन् परार्थकृत ; सुदाक्षिण्यो ह्यभ्यर्थित एव परोपकारं करोति, अयं पुनः स्वत एव परहितमेतिरिति विशेषः २० । “तह चेव" ति तथाशब्दः प्रकारार्थः, 'च' समुच्चये, 'एव:' अवधारणे । ततश्च यथैते विंशतिः'तथैव' तेन प्रकारेण लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः । पदार्थस्तु-लब्ध इव-प्राप्त इव लक्ष्यः-लक्षणीयोधर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्या-सुशिक्षणीयः२१ इति।एकविंशत्या गुणैःसम्पन्नो धर्मरत्नयोग्य इति योजितमेवेति द्वारगाथात्रयार्थः॥६॥७॥ भावार्थ पुनः सूत्रकृदेव व्याख्यातुकामस्तावदक्षुद्र इति प्रथमगुणं प्रकटयन्नाह खुद्दो त्ति अगंभीरो, उत्ताणमई न साहए धम्म । सपरोवयारसत्तो, अक्खुद्दो तेण इह जुग्गो॥ ८॥ यद्यपि क्षुद्रशन्दस्तुच्छङ्करदरिद्रलघुप्रभृतिष्वर्थेषु वर्तते, तथापीह क्षुद्र इत्यगम्भीर उच्यते तुच्छ इति कृत्वा । स पुनः 'उत्तानमतिः' अनिपुणधिषण इतिहेतो तोः 'न साधयति' न आराधयति धर्मम् , भीमवत्, तस्य सूक्ष्ममतिसाध्यत्वात् । उक्तं च "सूक्ष्मबुद्धया सदा ज्ञेयो, धर्मो धर्माणिमिनरैः । अन्यथा धर्मबुद्धथैव, तद्विघातः प्रसज्यते ॥१॥ गृहीत्वा ग्लानभैषज्यप्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य, शोकं समुपगच्छतः॥२॥ गृहीतोऽभिग्रहः श्रेष्ठो, ग्लानो जातो न च क्वचित् । अहो? मेऽधन्यता कष्टं, न सिद्धममिवाञ्छितम् ।।३।। १ प्रति° प्रत्यन्तरे ॥ Jan Education Intemann For Private Personal Use Only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy