SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् २१ गुणनामानि लज्जालुओ दयालू, मज्झत्यो सोमदिट्ठि गुणरागी । सकह सुपक्खजुत्तो, सुदीहदरिसी विसेसण्णू ।। ६ ।। वुड्डाणुगो विणीओ, कयण्णुओ परहियत्थकारी य । तह चेव लद्धलक्खो , इगवीसगुणेहिं संपन्नो ॥७॥ धर्माणां मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपो धर्मः स धर्मरत्नम् तस्य योग्यः-उचितो भवति इत्यध्याहारः, एकविंशत्या गुणैः सम्पन्न इति तृतीयगाथान्ते सम्बन्धः । तानेव गुणान् गुणगुणिनोः कथश्चिदभेद इति दर्शनाय गुणिप्रतिपादनद्वारेणाह-"अक्खुद्दो" इत्यादि। तत्र 'अक्षुद्रः' अनुत्तानमतिः। 'रूपवान्' प्रशस्तरूपः स्पष्टपश्चेन्द्रिय इत्यर्थः, मतोः प्रशंसावाचित्वात् , रूपमात्राभिधाने पुनरिनेव, यथा “रूपिणः पुद्गलाः प्रोक्ताः" इति २। 'प्रकृतिसोमः स्वभावतोऽपापकर्मा ३। 'लोकप्रियः सदा सदाचारचारी ४॥ 'अक्रूरः' अक्लिष्टचित्तः ५। भीरु: ऐहिकासुष्मिकापायमीरुकः ६। 'अशठः परावञ्चकः७। 'सुदाक्षिण्य प्रार्थनाभङ्गभीरुरिति ८॥ "लज्जालुओ" इत्यादि, 'लज्जालु: अकार्यवर्जकः ९ । 'दयालुः' सत्वानुकम्पकः १०। 'मध्यस्थ' रागद्वेषरहितोऽत एवासौ 'सोमदृष्टिः' यथावस्थितधर्मविचारवित्त्वाद् दूरं दोषत्यागी, सोमदृष्टिरित्यत्र विभक्तिलोपः प्राकतत्वात् , इह पदद्वयेनाप्येक एव गुणः ११। 'गुणरागी' गुणपक्षपाती १२। सती धर्मकथा अभीष्टा यस्य स सत्कथः १३ । 'सुपक्षयुक्तः' मुशीलानुकूलपस्विारोपेतः १४ । 'सुदीर्घदर्शी' सुपयालोचितपरिणामसुन्दरकार्यकारी १५ । 'विशेषन्नः' अपक्षपातित्वेन गुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy