________________
मरत्नकरणम्
पशुपालदृष्टान्तः
न च तमवाप दुरापं, पितरादूचे च यन्मयात्र पुरे । चिंतामणी न पत्तो, तो जामि तयत्थमन्नत्थ ॥ ६ ॥ ताभ्याममाणि वत्स!, स्वच्छमते ! कल्पनैव खल्वेषा । अन्नत्थ वि कत्थइ नत्थि एस परमत्थओ भुवणे ॥ ७॥ तद् रत्नैरसपत्नैर्यथेष्टमन्यैरपि व्यवहरस्व । निम्मलकमलाकलियं, भवणं ते होइ जेणमिणं ॥ ८ ॥* इत्युक्तोऽपि स चिन्तारत्नाप्तौ रचितनिश्चयश्चतुरः । वारिज्जतो पियरेहिं निग्गओ हथिणपुराओ ॥९॥ नगनगरमामाकरकर्बटपत्तनपयोधितीरेषु । तम्मग्गणपवणमणो, सुइरं भतो किलिस्संतो ॥ १० ॥ तमलममानो विमनाः, दध्यौ किं नास्ति सत्यमेवेदम् ? । अहवा तस्सत्थितं, न अन्नहा होइ सत्थुत्तं ।।११।। इति निश्चित्य स चेतसि, निपुणं बम्भ्रमितुमारभत भूयः । पउराओ मणिखाणीउ पुच्छापुच्छि नियच्छतो ॥१२॥ वृद्धनरेणैकेन च, सोऽभाणि यथा मणीवतीहास्ति । खाणी मणीण तत्थ य, पवरमणी पावइ सपुण्णो ॥ १३ ॥ तत्र च जगाम मणिगणममलमनारतमथो मृगयमाणः । एगो य तस्स मिलिओ, पसुवालो बालिसो अहियं ॥१४॥ जयदेवेन निरक्ष्यत, वर्तुल उपलश्च करतले तस्य । गहिओ परिच्छिओ तह, नाओ चिंतामणि त्ति इमो ॥१५॥ सोऽयाचि तेन समुदा, पशुपालः प्राह किममुना कार्यम् ? । भणइ वणी सगिहगओ, बालाणं कीलणं दाहं ॥१६॥ सोऽजल्पदीदृशा इह, ननु बहवः सन्ति किन गृह्णासि ? । सिद्विसुओ भणइ अहं, समुस्सुओ निययगिहगमणे ॥१७॥
तद्देहि मह्यमेनं, त्वमन्यमपि भद्र! लफ्स्यसे छत्र । अपरोवयारसीलत्तणेण तह वि हुन सो देइ ॥ १८ ॥ १°वरो°क । * प्रस्थानम् १०० । २ नगरनिगम ग ।
For Private & Personal Use Only
www.jainelibrary.org