SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 'यथा' येन प्रकारेण 'चिन्तामाणरत्न' सुप्रतीतं 'सुलभ' सुप्रापं 'न हु' नैव 'भवति' जायते 'तुच्छविभवाना' तुच्छ:स्वल्पो विभव:-कारणे कार्योपचाराद् विभवकारणं पुण्यं येषां ते तुच्छविभवाः, स्वल्पपुण्या इत्यर्थः. तेषाम् तथाविधपशुपालवत् । तथा गुणाः-अक्षुद्रतादयो वक्ष्यमाणस्वरूपास्तेषां विशेषेण भवनं-सत्ता गुणविभवः, अथवा गुणा एव विभवः-विभूतिर्गुणविभवः तेन वर्जितानाम्-रहितानां 'जीवानां' पञ्चेन्द्रियप्राणिनाम् । उक्तं च "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतानि तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥ अपिशब्दस्य वक्ष्यमाणस्येह सम्बन्धादेवं भावना कार्या–एकेन्द्रियविकलेन्द्रियाणां तावद् धर्मप्राप्तिास्ति, पञ्चेन्द्रियजीवानामपि तत्तयोग्यताहेतुगुणसामग्रीविकलानां 'तथा' तेन प्रकारेण धर्मरत्नं सुलभं न भवतीति प्रकृते सम्बन्ध इति ॥ पूर्वसूचितपशुपालदृष्टान्तश्चायम्-- बहुविबुधजनोपेतं, हरिरक्षितमप्सरःशतसमेतम् । इह अस्थि हथिणउरं पुरं पुरंदरपुर व परं ।। १ ।। तत्र श्रेष्ठिगरिष्ठः, पुन्नागो नागदेवनामाऽऽसीत् । निम्मलसीलगुणधरा, वसुंधरा रोहिणी तस्स ॥ २॥ तत्तनयो विनयोज्ज्वलमतिविभवभरो बभूव जयदेवः । दक्खो रयणपरिक्ख, सिक्खइ सो बारससमाओ॥३॥ विजितान्यमहसममलं, वित्रासं चिन्तितार्थदानपटुम् । चिंतामणि पमुत्तुं, सेसमणी गणइ उवलसमे ।। ४ ।। चिन्तामणिरत्नकृते, सुकृती स कृतोद्यमः पुरे सकले । हट्टं हदेण घरं, घरेण भमिओ अपरिततो ॥ ५॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy