________________
धर्मरत्न- प्रकरणम्
धर्मरत्न दौलम्यम्
प्रति-" दुलहे खलु माणुसे भवे, चिरकालेण वि सव्वपाणिणं । गाढा य विवाग कम्मुणो, समयं गोयम ! मा पमायए ॥
(उत्त० अ० १० गा०४) इति । अन्यैरप्युक्तम्"संसारकान्तारमपास्तपारं, चम्भ्रम्यमाणो लभते शरीरी । कृच्छ्ण नृत्वं सुखसस्यबीजं, प्ररूढदुःकर्मशमेन नूनम् ।।" " नरेषु चक्री त्रिदशेषु वज्री, मृगेषु सिंहः प्रशमो व्रतेषु । मतो महीभृत्सु सुवर्णशैलो, भवेषु मानुष्यभवः प्रधानः ॥"
"अनाण्यपि रत्नानि, लभ्यन्ते विभवैः सुखम् । दुर्लभो रत्नकोट्याऽपि, क्षणोऽपि, मनुजायुषः ॥” इति ।
'जन्तूनाम् ' प्राणिनाम् । तत्रापि ' मनुजत्वे सत्यपि 'अनर्थहरणम्' इतिनार्थ्यन्ते-नामिलष्यन्ते ये दारिद्रयक्षुद्रोपद्रवादयोऽपायास्ते हियन्ते-विध्वस्यन्ते येन तदनर्थहरणम् 'दुर्लभम्' दुःपापम् । किं तत् ? इत्याह सन्-साधुः पूर्वापराविरोधप्रभृतिगुणगणालङ्कृतत्वेन परप्रावादुकपरिकल्पितधर्मापेक्षया शोभनो धर्मः सद्धर्मः-सम्यग्दर्शनादिकः स एवैहिकार्थमात्रपदायीतररत्नापेक्षया शाश्वतानन्तमोक्षार्थदातृत्वेन वरं-प्रधानं रत्नं सद्धर्मवररत्नमिति ॥ २॥
अथामुमेवार्थ दृष्टान्तविशिष्ट स्पष्टयनाह
जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणं पि ॥३॥
Jain Education Interational
For Private Personal Use Only
www.jainelibrary.org