SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ "जहा पुष्णस्स कत्थइ तहा तुच्छस्स करथइ, जहा तुच्छस्स कथइ तहा पुण्णस्स कथइ ।।" इति । 'वितराम्युपदेशम्' इतीहायमाशयः-न निजप्रज्ञाभिमानेन, न परपरिभवाभिप्रायेण, न कस्यचिदुपार्जनाय प्रवर्ने, किं तर्हि ? कथं नु नामामी जन्तवः सद्धर्ममार्गमासाद्यापर्यवसितं महानन्दामन्दानन्दसन्दोहमवाप्स्यन्ति ? इत्यनुग्रहबुद्धया परेषामात्मनश्च । यदभाणि “शुद्धमार्गोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति नितरां तेन, कृतः स्वस्याप्यसौ महान् ।।" न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् । बुधतोऽनुग्रहबुद्धथा, वक्तुस्त्वेकान्ततो भवति ॥" (तत्वा० का० २९) उक्तः सभावार्थः सकलोऽपि गाथार्थः ।। १॥ अथ यथाप्रतिज्ञातं विमणिपुः प्रस्तावयन्नाह भवजलहिम्मि अपारे, दुलहं मणुयत्तणं पि जंतूणं । तत्थ वि अणत्थहरणं, दुलहं सद्धम्मवररयणं ॥२॥ भवन्त्यस्मिन् नारकतियङ्नरामररूपेण कर्मवशवर्तिनः प्राणिन इति भवः-संसारः, स एव जन्मजरामरणादिजलधारणाद् | जलधिस्तस्मिन् अनादिनिधनतया 'अपारे' अदृष्टपर्यन्ते बम्भ्रम्यमाणानामिति शेषः, 'दुर्लभ' दुरापं 'मनुजत्वमपि' मनुष्यभवोऽपि रे तावद् देशकुलजातिप्रमृतिसामग्रीत्यपेरर्थः। यजगदे जगदेकबन्धुना श्रीवर्डमानस्वामिना अष्टापदादागतं श्रीगौतममहामुनि Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy