SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ धर्मरत्नप्रकरणम् मङ्गलामिधेयप्रयोजनानि " सच्यो गुणेहि गणो, गुणाहियस्स जह लोगवीरस्स । संभंतमउडविडवो, सहस्सनयणो सययमेइ ॥” इति ।। 'विमलकेवलम्' इत्यमुना तु ज्ञानातिशयसम्पन्नतया प्रसिद्धसिद्धार्थपार्थिवकुलविमलनभस्तलनिशीथिनीनाथस्य जिननाथस्य वचनातिशयः प्रपश्यते, यतः केवलज्ञाने सत्यवश्यम्भाविनी भगवतां तीर्थकृतां सद्देशनाप्रवृत्तिः, तीर्थकरनामकर्मण इत्यमेव वेद्यमानत्वात् । यदुक्तं श्रीभद्रबाहस्वामिपादैः - "तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहिं ।" इत्यादि । 'वीरम्' इति सान्वयपदेन च भगवतः समूलकाकषितनिःशेषापायनिवन्धनकर्मशत्रुसङ्घातस्य चरमजिनेश्वरस्यापायापगमातिशयः प्रस्पष्टं निष्टक्यते, यतोऽपायभूतं भवभ्रमणकारणत्वात सर्वमपि कर्म । तथा चागमः " सव्वं पावं कम्मं, भामिजइ जेण संसारे । " इति । 'धर्मरत्नार्थिभ्यः' इत्येतेन श्रवणाधिकारिणामर्थित्वमेव मुख्यं लिङ्गमित्यभाणि । यदुक्तं परोपकारभूरिभिः श्रीहरिभद्रसूरिभिः"तत्थ हिगारी अस्थी, समत्थो जो न सुत्नपडिकुट्ठो । अत्थी उ जो विणीओ, समुडिओ पुच्छमाणो य ।।" इति । 'जनानाम्' इत्यनेन बहुवचनान्तेनेदमुदितं भवति, यथा नैकमेवेश्वरादिकमाश्रित्योपदेशदाने प्रवर्तितन्यम्, किन्तु सामान्येन सर्वसाधारणतया । तथा चाह भगवानसुधर्मस्वामी JainEducation international For Private Personal Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy