________________
धर्मरत्नप्रकरणम्
मङ्गलामिधेयप्रयोजनानि
" सच्यो गुणेहि गणो, गुणाहियस्स जह लोगवीरस्स । संभंतमउडविडवो, सहस्सनयणो सययमेइ ॥” इति ।।
'विमलकेवलम्' इत्यमुना तु ज्ञानातिशयसम्पन्नतया प्रसिद्धसिद्धार्थपार्थिवकुलविमलनभस्तलनिशीथिनीनाथस्य जिननाथस्य वचनातिशयः प्रपश्यते, यतः केवलज्ञाने सत्यवश्यम्भाविनी भगवतां तीर्थकृतां सद्देशनाप्रवृत्तिः, तीर्थकरनामकर्मण इत्यमेव वेद्यमानत्वात् । यदुक्तं श्रीभद्रबाहस्वामिपादैः
- "तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहिं ।" इत्यादि । 'वीरम्' इति सान्वयपदेन च भगवतः समूलकाकषितनिःशेषापायनिवन्धनकर्मशत्रुसङ्घातस्य चरमजिनेश्वरस्यापायापगमातिशयः प्रस्पष्टं निष्टक्यते, यतोऽपायभूतं भवभ्रमणकारणत्वात सर्वमपि कर्म । तथा चागमः
" सव्वं पावं कम्मं, भामिजइ जेण संसारे । " इति । 'धर्मरत्नार्थिभ्यः' इत्येतेन श्रवणाधिकारिणामर्थित्वमेव मुख्यं लिङ्गमित्यभाणि । यदुक्तं परोपकारभूरिभिः श्रीहरिभद्रसूरिभिः"तत्थ हिगारी अस्थी, समत्थो जो न सुत्नपडिकुट्ठो । अत्थी उ जो विणीओ, समुडिओ पुच्छमाणो य ।।" इति ।
'जनानाम्' इत्यनेन बहुवचनान्तेनेदमुदितं भवति, यथा नैकमेवेश्वरादिकमाश्रित्योपदेशदाने प्रवर्तितन्यम्, किन्तु सामान्येन सर्वसाधारणतया । तथा चाह भगवानसुधर्मस्वामी
JainEducation international
For Private
Personal Use Only
www.jainelibrary.org