SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ | एव रौद्रदारिद्यमुद्राविद्रावकत्वात् सकलकल्याणकलापकारणत्वाच्च रत्नानि सकलगुणरत्नानि तेषां कुलगृहम्-उत्पत्तिस्थानं तं सकलगुणरत्नकुलगृहम् । पुनः किंविशिष्टम् ? 'विमलकेवलम्' विमलं-सकलतदावारककर्मरेणुसम्पर्कविकलत्वेन निर्मलं केवलंकेवलाख्यं ज्ञानं यस्य स विमलकेवलस्तम् । क्त्वाप्रत्ययस्य चोत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह-'वितरामि' प्रयच्छामि, कम् ? 'उपदेशम् उपदिश्यत इत्युपदेशः-हिताहितप्रवृत्तिनिवृत्तिनिमित्तवचनरचनाप्रपञ्चस्तम् । केभ्यः? 'जनेभ्यः लोकेभ्यः। कथम्भूतेभ्यः ? 'धर्मरत्नार्थिभ्यः' दुर्गतिप्रपतन्तं प्राणिगण धारयति सुगतौ धत्ते चेति धर्मः । उक्तं च--- "दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः । धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ।। " इति । | स एव रत्नं-प्राग्व्यावर्णितशब्दार्थ तमर्थयन्ते-मृगयन्त इत्येवंशीला ये ते धर्मरत्नार्थिनस्तेभ्यः । सूत्रे च षष्ठी चतुर्थ्यर्थे प्राकृत- 1) लक्षणवशात् । यदाहुः प्रभुश्रीहेमचन्द्रसूरिपादाः स्वकृतप्राकृतलक्षणे-"चतुर्थ्याः षष्ठी" (सिद्ध०८।३।१३१) इति गाथाक्षरार्थः।। भावार्थः पुनरयम्-'नत्वा' इति पूर्वकालाभिधायिनाऽऽक्षिप्तोत्तरकालक्रियेण स्याद्वादशार्दलनादसंवादिना पदेनैकान्तनित्यानित्यवस्तुविस्तारवादिप्रवादिमृगयोर्मुखबन्धो व्यधायि, यतो नैकान्तेन नित्योऽनित्यो वा कर्ता क्रियाद्वयं कर्तुमीष्टे, क्रियाभेदे कर्तृभेदात् , ततो द्वितीयक्रियाक्षणे कर्तुरनित्यनित्यत्वाभावप्रसङ्गाभ्यां द्वयोरप्यपाकृतिरिति । 'सकलगुणरत्नकुलगृहम्' इत्यनेन भगवतः श्रीमदपश्चिमतीर्थाधिनाथस्य पूजातिशयः प्रकाश्यते, तथा च पूज्यन्त एवाहंप्रथमिकाविधीयमानावनामवशसमुत्पन्न शिरःकोटीरकोटीविटङ्कसङ्घट्टैः सुरासुरनरनिकरनायकैरपि गुणवन्तः । उक्तं च Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy