SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न प्रकरणम् १ नमिऊण सयलगुणरयणकुलहरं विमलकेवलं वीरं । धम्मरयणत्थियाणं, जणाण वियरेमि उवएसं ॥ १ ॥ इह पूर्वार्द्धेनाभीष्टदेवतानमस्कारद्वारेण विघ्नविनायकोपशान्तये मङ्गलमभिहितम्, उत्तरार्द्धेन चाभिधेयमिति । सम्बन्ध-प्रयोजने पुनः सामर्थ्यगम्ये । तथाहि — सम्बन्धस्तावदुपायोपेयलक्षणः साध्य साधनलक्षणो वा । तत्रेदं शास्त्रमुपायः साधनं वा । साध्यशु॒पेयं वा शास्त्रार्थपरिज्ञानमिति । प्रयोजनं तु द्विविधम् — कर्तुः श्रोतुश्च । पुनरनन्तर-परम्परभेदादेकैकं द्वेधा । तत्रानन्तरं कर्तुः सत्वानुग्रहः, परम्परमपवर्गप्राप्तिः । तथा चोक्तं वाचकमित्रैः Jain Education International 'सर्वज्ञोक्तोपदेशेन, यः सच्त्वानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिराच्छिवम् ।। " इति । श्रोतुः पुनरनन्तरं शास्त्रार्थपरिज्ञानम्, परम्परं तस्याप्यपवर्गप्राप्तिः । उक्तं च— 11 " सम्यक् शास्त्रपरिज्ञानाद्, विरक्ता भवतो जनाः । लब्ध्वा दर्शनसंशुद्धिं ते यान्ति परमां गतिम् ।। इति । साम्प्रतं सूत्रव्याख्या 'नत्वा' प्रणम्य, कम् ? वीरम्' कर्मविदारणात् तपसा च विराजनाद् वर्यवीर्ययुक्तत्वाच्च जगति यो वीर इति ख्यातः । यदवादि - “ विदारयति यत् कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥ " तं वीरं-श्रीमद्वर्द्धमानस्वामिनम् । किंविशिष्टम् ? 'सकलगुणरत्नकुलगृहम्' सकलाः- समस्ता ये गुणाः-क्षमामार्दवार्जवादयस्त । For Private & Personal Use Only 66 मङ्गलामिधेयप्रयो जनानि १ www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy