________________
श्रीमद्देवेन्द्रसूरिविरचितबृहद्वृत्तिविभूषितं चन्द्रकुलनभश्चन्द्रश्रीनेमिचन्द्रसूरिशिष्य श्री शान्तिमूरिसन्दृब्धं श्रीधर्मरत्नप्रकरणम् ।
Jain Education International
॥ ॐ नमः प्रवचनाय ||
सज्ज्ञानलोचनविलोकितसर्वभावं, निःसीमभीमभवकाननदाहदावम् । विश्वार्चितं प्रवरभास्वरधर्मरत्नरत्नाकरं जिनवरं प्रयतः प्रणौमि ।। १ ।।
श्री धर्मरत्नशास्त्रं, बह्वर्थं स्वल्पशब्दसन्दर्भम् । स्वपरोपकारहेतोर्विवृणोमि यथाश्रुतं किश्चित् ॥ २ ॥
इह हि हेयोपादेयादिपदार्थसार्थपरिज्ञानप्रवीणस्य जन्मजरामरणरोगशोकादिदुर्गदौर्गत्यनिपीडितस्य भव्य सत्त्वस्य स्वर्गापवर्गादिसुखसम्पत्सम्पादनावन्ध्यनिबन्धनं सद्धर्मरत्नमुपादातुमुचितम् । तदुपादानोपायश्च गुरूपदेशमन्तरेण न सम्यग् विज्ञायते, न चानुपायप्रवृत्तानामभीष्टार्थसिद्धिः इत्यतः कारुण्यपुण्यचेतस्तया धर्मार्थिनां धर्मोपादान- पालनोपदेशं दातुकामः सूत्रकारः शिष्टमार्गानुगामितया पूर्व तावदिष्टदेवतानमस्कारादिप्रतिपादनार्थमिमां गाथामाह
For Private & Personal Use Only
www.jainelibrary.org