________________
श्रीधर्मरत्नप्रकरणम्
व्रतग्रहणलक्षणो गुणः
॥१३२॥
BEEEEEEEEEEXXXX
___ तए णं ते थेरा अन्नया कयाई तुंगियाओ नयरीओ पुष्फबईचेइयाओ पडिनिग्गच्छन्ति, बहिया जणवयविहारं विहरति ।
एवं च गुणगणड्डा, जिणपभणियसत्ततत्तसुवियड्डा । सुहभायणं अथड्डा, ते जाया तुंगियासड्डा ॥१॥
इति भविकजनौघास्तुङ्गिकाश्रावकाणां, समयशुचिविचारे चातुरी संनिशम्य । जिनगदितयमानां भङ्गभेदातिचारप्रभृतिविशदतत्त्वज्ञाननिष्ठा भवन्तु ॥२॥
॥ इति तुङ्गिकानगरीश्रावकदृष्टान्तः॥ उक्तो व्रतकर्मणि ज्ञान इति द्वितीयो भेदः, सम्प्रति ग्रहणलक्षणं तृतीयं भेदं व्याचिख्यासुर्गाथापूर्वार्द्धमाह
गिण्हइ गुरूण मूले, इत्तरमिअरं व कालमह ताई। 'गृह्णाति' प्रतिपद्यते 'गुरूणां' आचार्यादीनां 'मृले' समीपे आनन्दवत् ।
आह-श्रावको देशविरतिपरिणामे सति व्रतानि प्रतिपद्यते असति वा ? किश्चातः-यद्याधः पक्षः किं गुरुसमीपगमनेन ? साध्यस्य सिद्धत्वात् , प्रतिपद्यापि व्रतानि देशविरतिपरिणाम एव साध्यः, स चास्य स्वत एव सिद्ध इति गुरोरप्येवं परिश्रमयोगान्तरायदोपपरिहारः कृतः स्यादिति । द्वितीयश्चेत् तर्हि द्वयोरपि मृषावादप्रसङ्गात् परिणामाभावे पालनस्याप्यसम्भवात् ।
तदेतत् सकलं परोपन्यस्तमचारु, उभयथापि गुणोपलब्धेः। तथाहि-सत्यपि देशविरतिपरिणामे गुरुसमीपप्रतिपत्तौ तन्माहा| त्म्याद् मया सद्गुणस्य गुरोराज्ञाऽऽराधनीयेति प्रतिज्ञानिश्चयाद् व्रतेषु दृढता जायते, जिनाज्ञा चाराधिता भवति ।
उक्तं च
तत्र 3 न्दश्रावक दृष्टान्त:
॥१३२॥
Jain Education II
For Private & Personel Use Only
Mulainelibrary.org