________________
| भंते ! पडिकमामि निंदामि गरिहामि, अप्पाणं वोसिरामि ।"
सङ्कल्पतः-वधाभिसन्धिमाश्रित्य नारम्भतोऽपि, गृहिणामारम्भवर्जनासम्भवात् । एतच्च व्रतं प्रतिपन्नेन पञ्चातिचाराः कदाचिदपि | नासेवनीयाः।
ते चामीबन्धो बधश्छविच्छेदोऽतिभारारोपण भक्तपानव्यवच्छेदश्चेति ।
तत्र बन्ध:-मनुष्यगवादीनां रज्जुदामकादिभिः संयमनम् । अयं च द्विधा सम्भवति अर्थाय अनर्थाय चेति । तत्रानर्थाय तावन्न कदाचिद्विवेकिनाऽसौ समाचरणीयः। यश्चार्थाय सोऽपि द्विविधः-सापेक्षो निरपेक्षश्च। तत्र यदा चतुष्पदचौरादिकं प्रदीपनमरणाद्यपेक्षा मुक्त्वा निर्दयं निश्चलमत्यर्थमाक्रम्य बध्यते तदा निरपेक्षः । यदा तु चतुष्पदानि तावत् तथा बध्नाति यथा प्रदीपनकादिषु तद्वन्धस्य मोचनछेदनादिकं कर्तुं शक्यते, द्विपदेषु तु दासं दासी चौरं वा पाठादिप्रमत्तं पुत्रादिकं वा तन्मरणादिभीरुतया सदयं तथा बध्नाति यथा बद्धानामपि तेषामङ्गानि सप्रवीचाराणि भवन्ति, प्रदीपनकादिषु च विनाशो न सम्पद्यते तदाऽसौ सापेक्षः । इह चायं मुनीन्द्रोपदेशः-यच्छ्रावकेण त एव गवादयः परिग्रहीतव्या ये अबद्धा अप्येवमेवासते, भीतपर्षदा च तथा तेन भाव्यं यथा बन्धादिकमन्तरेणापि दृष्टिदर्शनादिमात्रत एव भीतो दासादिः सम्यक् प्रवत्तते । अथ कोऽपि न तथा प्रवर्तते तदा यथोक्तस्वरूपं सापेक्षं बन्धमपि कुर्वन्न व्रतमतिचरति, निरपेक्षे त्वस्मिन् विधीयमाने व्रतातिचार इति ।
वधः:-यष्टिकशादिभिस्ताडनम् , अर्थानादिका तु भावना अत्रापि बन्धवत् कार्या। नवरं निरपेक्षो वधो निर्दयताडना । भीत
Jain Education !
For Private Personel Use Only
Mhinelibrary.org