________________
पञ्चाशत्-अष्टचत्वारिंशदधिकशतगुणिताश्चेत्यर्थः, 'पडादियुक्ताश्च'इति षट्-नव एकविंशति-एकोनपञ्चाशत्-सप्तचत्वारिंशदधिकशतयुक्ताश्चेत्यर्थः । ततः किम् ? इत्याह-'वयसम'त्ति ईप्सितद्वितीयादिव्रतसंख्यासमानवारागुणिता भङ्गका भवन्ति ।
इदमत्र हृदयम्इह किल पड्भङ्गयां प्रथमव्रते भङ्गाः षट्। त एव व्रतद्विकसंयोगे सप्ततिर्गुणिता जाता द्विचत्वारिंशत्, तत्र षद् प्रक्षिप्ता जाता अष्टचत्वारिंशत् । सैव व्रतत्रिकसंयोगे सप्तगुणने षट्प्रक्षेपे च जाता द्विचत्वारिंशदधिकशतत्रयरूपाः ३४२। एवं व्रतचतुष्कादिसंयोगेऽपि सप्तगुणन-षट्प्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादश्यां वेलायां द्वादशव्रतसंयोगभङ्गसंख्या १३८४१२८७२०० ।
अन गाथातेरस कोडिसयाई, चुलसी कोडी उ बारस य लक्खा । सगसीइ सहस दो सय, सव्वग्गंछक्कभंगीए॥ नवभङ्गयां तु प्रथमव्रते भङ्गा नव, ततो द्विकादिव्रतसंयोगे दशगुणन-नवकप्रक्षेपक्रमेण तावद् गन्तव्य यावदेकादश वेलायां द्वादशवतसंयोगभङ्गसंख्या ९९९९९९९९९९९९ । एकविंशतिभङ्गयां प्रथमव्रते एकविंशतिभङ्गाः, ततो द्विकादिव्रतसंयोगे द्वाविंशतिगुणन-एकविंशतिप्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादशवेलायांद्वादशव्रतसंयोगभङ्गसंख्या १२८५५००२६३१०४९२१५। एकोनपश्चाशद्भङ्गयां प्रथमव्रते भगा एकोनपश्चाशत्, ततो द्विकादिव्रतसंयोगे पश्चाशद्गुणन-एकोनपश्चाशत्प्रक्षेपक्रमेण तावद् | गन्तव्यं यावदेकादशवेलायां द्वादशव्रतसंयोगभङ्गसंख्या २४४१४०६२४९९९९९९९९९९९९ । सप्तचत्वारिंशशतभङ्गयां प्रथमत्रते भङ्गाः सप्तचत्वारिंशं शतम् , ततो द्विकादिव्रतसंयोगे अष्टचत्वारिंशशतगुणन-सप्तचत्वारिंशशतप्रक्षेपक्रमेण तावद् गन्तव्यं यावदेकादश
Jain Educati
Mainelibrary.org
o
For Private 8 Personal Use Only
nal