________________
EEEEEEEEEEEEEEEEEEEEEEG
अन्यस्तु बहुमानवान् भवति, न विनयं प्रयुक्ते, शक्तिविकलत्वात् , स च ग्लानादिः। अन्यस्तु प्रत्यासन्नकल्याणकलापालड्कृतशरीर: सुदर्शनश्रेष्ठिवत् विनयबहुमानसारं शृणोति । कश्चिद् गुरुतरकर्मा द्वितयमपि परिहरति शृणोति च । न च तस्मै गुरोरप्यागमानुसारिप्रवृत्तेः कथयितुं युक्तम् ।
उक्तं च श्रीस्थानाङ्गे"चत्तारि अवायणिज्जा पण्णत्ता, तं जहा-अविणीए, विगइपडिबद्धे, अविओसियपाहुडे, पबलकोवमाई"।
तथा"ओहेणवि उवएसो, आएसेणं विभागसो देओ । नाणाइवुढिजणओ, महुरगिराए विणीयस्स ॥१॥ अविणीयमालवंतो, किलिस्सई भासई मुसं तह य । घंटालोहं नाउं, को कडकरणे पवत्तिज्जा ? ॥" इत्यादि । अतो विनयबहुमानसारं व्रतश्रवणं करोतीति प्रकृतम् । कुतः सकाशाद् ? इत्याह-गीतार्थात् ।
"गीयं भन्नइ सुत्तं, अत्थो तस्सेव होइ वक्खाणं । गीएण य अत्थेण य, संजुत्तो होइ गीयत्थो" ॥ तसादन्यस्यान्यथापि प्ररूपणासम्भवेन विपरीतबोधहेतुत्वात् । इह च व्रतश्रवणमुपलक्षणम् , तेनान्यदप्यागमप्रभृतिश्रवणं विज्ञेयमित्येकं व्रतकर्म। .
अथ पूर्वसूचितसुदर्शनकथेयम्
Jain Education International
For Private Personel Use Only
jainelibrary.org