SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् ॥११४॥ भावश्रावकलक्षणानि। 'गुणवान्' विवक्षितगुणोपेतः३। चकारः समुच्चये भिन्नक्रमश्च । तत्र 'ऋजुन्यवहारी च' सरलमनाश्च ४ । 'गुरुशुश्रूषः' गुरुसेवाकारी ५। 'प्रवचनकुशलो' जिनमततत्त्ववित् ६ । 'खलु' अवधारणे । एवंविध एव श्रावको भवति 'भावे भावविषये भावश्रावक इति गाथाक्षरार्थः। भावार्थ स्वत एव सूत्रकृद् विभणिषुर्यथोद्देशं निर्देश इति न्यायात् कृतव्रतकर्माणमादावाह तत्थायण्णण १ जाणण २ गिण्हण ३ पडिसेवणेसु ४ उज्जुत्तो। कयवयकम्मो चउहा, भावत्थो तस्सिमो होइ ॥ ३४ ॥ 'तत्र' तेषु षद्सु लिङ्गेषु मध्ये कृतव्रतकर्मा 'चतुर्दा चतुर्भेदो भवतीति संबन्धः । तानेव भेदानाह-'आकर्णन' श्रवणम् १, 'ज्ञानम्' अवबोधः २, 'ग्रहणं' प्रतिपत्तिः ३, 'प्रतिसेवनं' सम्यक्पालनम् ४, ततो द्वन्द्वः, तेषु, व्रतानामिति प्रक्रमाद् गम्यते, 'उद्युक्तः' उद्यमवान् । 'भावार्थः' ऐदम्पर्य 'तस्य' चतुर्विधस्यापि 'अयं' आसन्नं भणिष्यमाणो भवतीति। अथ भावार्थ विभणिषुः प्रथममाकर्णनभेद विवरीतुं गाथापूर्वार्द्धमाह . विणयबहुमाणसारं गीयत्थाओ करेइ वयसवणं । विनयः-अभ्युत्थानादिः बहुमानः-मानसप्रीतिविशेषस्ताभ्यां सारं-प्रशस्तं यथाभवत्येवं व्रतश्रवणं करोतीति योगः । इह | पत्वारो भङ्गाः कश्चिद् धूर्तो विनयसारं वन्दनादिदानतः शृणोति परिज्ञानार्थी, न पुनर्व्याख्यातरि बहुमानवान् भवति, गुरुकर्मत्वात् । ॥११४॥ Jan Education Internal For Private 3 Personal Use Only wwww.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy