________________
श्रीधर्मरत्नप्रकरणम्
॥११३॥
व्यशरीरव्यतिरिक्तो देवगुरुतत्वादि श्रद्धानविकलस्तथाविधाजीविकाहेतोः श्रावकाकारधारकश्च । भाव श्रावकस्तु
“श्रद्धालुतां श्राति शृणोति शासनं, दानं वपेदाशु वृणोति दर्शनम् । कृन्तत्यपुण्यानि करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ।। इत्यादिश्रावकशब्दार्थघारी यथाविधि श्रावकोचितव्यापारपरायणो वक्ष्यमाणः, स चेहाधिकृतः, शेषत्रयस्य यथाकथंचिदेव
भावादिति ।
ननु - आगमेऽन्यथा श्रावकभेदाः श्रूयन्ते, यदुक्तं श्रीस्थानाङ्गे– “चडव्विहा समणोवासगा पण्णत्ता, तं जहा - अम्मापिइसमाणे मायमाणे मित्तसमाणे सवत्तिसमाणे ।" अथवा चउब्विहा समणोवासगा पण्णत्ता, तंजहा-आयंससमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणे ।” एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिन्नवतरन्तीति । उच्यते — व्यवहारनयमतेन भावश्रावका एवैते, तथा व्यवहियमाणत्वात् निश्चयनयमतेन पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिमायौ द्रव्यश्रावकौ, शेषास्तु भावश्रावकाः । तथाहि तेषां स्वरूपमेवमागमे व्याख्यायते—
Jain Education International
चितइ जइकज्जाईं, न दिट्ठखलिओवि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्डो ॥ १॥ हिए ससिणेहो च्चिय, मुणीण मंदायरो विणयकम्मे । भाइसमो साहूणं, पराभवे होइ सुसहाओ ॥२॥ मित्तसमाणो माणा, ईसिं रूसइ अपुच्छिओ कज्जे । मन्नंतो अप्पाणं, मुणीण सयणाउ अब्भहियं ||३|| थो छिप्पेही, पमायखलियाणि निच्चमुच्चरह । सड्डो सवत्तिकप्पो, साहुजणं तणसमं गणइ ||४|| तथा द्वितीयचतुष्के
For Private & Personal Use Only
भावश्रावकलक्षणा
नि ।
॥११३॥
jalnelibrary.org