________________
इति नागार्जुनकथा समाप्ता ।
उक्तो लब्धलक्ष्य इत्येकविंशो गुणः, साम्प्रतं निगमयन्नाहएए इगवीस गुणा, सुयाणुसारेण किंचि वक्खाया। अरिहंति धम्मरयणं, पित्तुं एएहि संपन्ना ॥२९॥
'एते' पूर्वोक्तस्वरूपा एकविंशतिसंख्या गुणाः 'श्रुतानुसारेण शास्त्रान्तरोपलम्भद्वारेण किंचिद् न सामस्त्येन 'व्याख्याता' स्वरूपतः फलतश्च प्ररूपिताः। किमर्थम् ? इत्याह-यतः अर्हन्ति योग्यतासारं धर्मरत्नं 'ग्रहीतुम्' न पुनर्वसन्तनृपवदाजलीलामिति भावः। के? इत्याह-एभिः' अनन्तरोक्तैर्गुणैः 'सम्पन्नाः' संगताः सम्पूर्णा वेति ।
आह-किमेकान्तेनैतावदुगुणसम्पन्ना धर्माधिकारिणः, उतापवादोऽप्यस्तीति प्रश्ने सत्याहपायऽद्धगुणविहीणा, एएसिं मज्झिमाऽवरा नेया । इत्तो परेण हीणा, दरिद्दपाया मुणेयव्वा ॥३०॥
इहाधिकारिणस्नेधा चिन्त्याः -उत्तमा मध्यमा जघन्याश्च । तत्रोत्तमाः सम्पूर्णगुणा एव । पाद:-चतुर्थाशोऽर्द्ध-दलम् गुणशब्दस्य प्रत्येकमभिसम्बन्धात् पादप्रमाणैरर्द्धप्रमाणैश्च गुणैये विहीनाः-विकलाः एतेषाम् उक्तगुणानां मध्यात ते यथाक्रमं मध्यमाऽवरा ज्ञेयाः, चतुर्थाशविहीना मध्यमाः, अर्द्धविहीना जघन्या इति भावः ।
तेभ्योऽपि हीनतरेषु का वार्ता ? इत्याह-"इत्तो परेण" ति 'एभ्योऽपि परेण' अदिप्यधिकः 'हीनाः' रहिताः 'दरिद्रप्रायाः' अ| किञ्चनजनकल्पाः 'मुणितव्याः' वेदितव्याः। यथा हि दरिद्रा उदरकन्दराभरणचिन्ताच्याकुलतया न रत्नत्रयमनोरथमपि कुर्वन्ति,
XXXXXXXXXXXXXXXXXX
JainEducational
For Private Personel Use Only