________________
इति हि भीमकुमारसुवृत्तकं, मनसिकृत्य चमत्कृतिकारकम् । परहितार्थकृतः कृतिनो ! मुदा, भवत मावितजैनमताः सदा ॥ २५२ ॥
॥ इति भीमकुमारकथा समाप्ता ॥ उक्तः परहितार्थकारीति विंशतितमो गुणः । साम्प्रतमेकविंशतितमो लब्धलक्ष्यगुणः फलतोऽभिधीयतेलक्खेइलद्धलक्खो, सुहेण सयलंपिधम्मकरणिज्जीदक्खो सुसासणिज्जो, तुरियं च सुसिक्खिओहोइ॥२८॥
_ 'लक्षयति' जानाति प्रतनुज्ञानावरणत्वाद् लब्धमिव लब्धं लक्ष्यं-शिक्षणीयानुष्ठानं येन स लम्धलक्ष्यः 'सुखेन' अक्लेशेनात्मनः | शिक्षयितुश्च निर्वेदमनुत्पादयनित्यर्थः 'सकलं' समस्तमपि 'धर्मकरणीयं' चैत्यवन्दनवन्दनादिकम् । अयमभिप्रायः-पूर्वभवाभ्यस्तमिवसकलं झटित्येवाधिगच्छति ।
तथा चाहप्रतिजन्म यदभ्यस्तं, जीवैः कर्म शुभाशुभम् । तेनैवाभ्यासयोगेन, तदेवाभ्यस्यते सुखम् ॥ इति ॥
अत एव 'दक्षः क्षिप्रकारी, 'सुशासनीयः सुखशिक्षणीयः 'त्वरितं स्तोककालेन, चकारस्योपरि योगात् 'सुशिक्षितश्च शिक्षापारगामी च स्यात् । नागार्जुनवत् ।
तत्कथा चैवम्पुरमत्थि पाडलिपुरं, गंधियहट्ट व सुरहिगंधड्डे । तत्थ मुरुंडो निवई, ईसरसयसहसनमियकमो॥१॥
Jain Education IIVINH
For Private Personel Use Only
P
lainelibrary.org