________________
श्रीधर्मरत्नप्रकरणम्
परहितार्थकारी गुणः
२०
॥९९॥
पर्यवसानफलं-सकलफलपर्यन्तवर्ति फलं यस्याः सा तथा । 'गाह त्ति' संग्रहगाथा, एतल्लक्षणं चैतत्-"विषमाक्षरपादं च०" इत्यादि छन्दःशाखप्रसिद्धमिति ।
श्रीधर्मदासगणिपूज्यैरुपदेशमालायामप्युक्तम्वंदइ पडिपुच्छइ पज्जुवासए साहुणो सययमेव । पढइ सुणेइ गुणेइ य, जणस्स धम्म परिकहेइ ॥ ति । किंविशिष्टः सन् ? इत्याह-निरीहचित्तः' निःस्पृहमनाः, सस्पृहो हि शुद्धमार्गोपदेष्टाऽपि न प्रशस्यते ।
तथा चोक्तम्परलोकातिगं धाम, तपः श्रुतमिति द्वयम् । तदेवार्थित्वनिर्लप्तसारं तृणलवायते ॥ किमित्येवंविधः ? इत्याह-महासत्व इति कृत्वा, यतः सत्त्ववतामेवामी गुणाः सम्भवन्ति ।
तथाहिपरोपकारैकरतिनिरीहता, विनीतता सत्यमतुच्छचित्तता । विद्याविनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति ॥ इति ।
भीमकुमारकथा चेयम्कपिशीर्षकदलकलितं, जिनभुवनसुकेशरं श्रिया श्लिष्टम् । किंतु जडसंगमुकं, इहत्थि कमलं व कमलपुरं ॥१॥ तत्राभवदरिपार्थिवकरटिघटाविघटनप्रकटवीर्यः । णयकाणणकयवासो, हरि ब हरिवाहणो राया ॥२॥
तत्र भीमकुमार
कथा । ॥९९॥
Jain EducatHYI
For Private Personel Use Only
Jww.jainelibrary.org