________________
श्रीधर्मरत्नप्रकरणम् ॥९८॥
परहितार्थकारी गुणः
२०
XXXKAREIXEXXES
तत्तो अणंतकालं, भमिय भवे कहवि लहिय नरजम्मं । होउं कयण्णुपवरो, सिवं गओ वामदेवोवि ॥२९६॥ इत्येवं च कृतज्ञतागुणसुधां सन्तापनिळपिकां, दुःप्रापामजरामरास्पदकरीं प्रा• बुधानामपि । पायं पायमपायमुक्ततनवः स्फारीभवत्सम्मदा, भो भव्या ! भवतानिशं विमलवद् निःशेषतृष्णोज्झिताः ॥२९७॥
इति विमलकुमारचरितं समाप्तम् ।। उक्तः कृतज्ञ इत्येकोनविंशतितमो गुणः । सम्प्रति विंशतितमो गुणः परहितार्थकारी, तत्स्वरूपं नामत एव सुगमम्, अतस्तस्य धर्मप्राप्तौ फलमाहपरहियनिरओ धन्नो, सम्मविण्णायधम्मसब्भावो । अन्नेवि ठवइ मग्गे, निरीहचित्तो महासत्तो ॥२७॥ ___ यो हि प्रकृत्यैव परेषां हितकरणे नितरां रतो भवति स धन्यः, धनार्हत्वात् , 'सम्यग्विज्ञातधर्मसद्भावः' यथावबुद्धधर्मतत्त्वो गीतार्थीभूत इति यावत् । अनेनागीतार्थस्य परहितमपि चिकीर्षतस्तदसम्भवमाह।
तथा चागमःकिं इत्तो कट्ठयरं, जं सम्ममनायसमयसम्भावो । अन्नं कुदेसणाए, कट्ठयरागम्मि पाडेइ ।। त्ति 'अन्यानपि' अविज्ञातधर्मान् सद्गुरुपार्श्वे समाकर्णितागमवचनरचनाप्रपञ्चैः 'स्थापयति' प्रवर्त्तयति, ज्ञातधर्माश्च सीदतः स्थिरीकरोति 'मार्गे' शुद्धधर्मे । भीमकुमारवत् । अनेन यतिश्राद्धसाधारणेन परहितगुणव्याख्यानपदेन साधोरिव श्रावकस्यापि खभूमिकानुसारेण देशनायां व्याप्रियमाणस्यानुज्ञामाह ।
तत्र भीमकुमारकथा। ॥९८॥
in Eden
!
For Private & Personel Use Only
Hw.jainelibrary.org