SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ रागकेशरिराजस्य, मन्त्री प्रोत्साहसाहसः । त्रैलोक्यामपि विषयाभिलाष इति विश्रुतः ॥२५४॥ अनेन मन्त्रिणा पूर्व, विश्वसाधनहेतवे । मानुषाणि प्रयुक्तानि, पश्चात्मीयानि सर्वतः ॥२५५॥ स्पर्शनं रसना घ्राणं, दृक् श्रोत्रमिति नामतः। जगज्जयप्रवीणानि, विश्वाद्वैतबलानि च ॥२५६।। क्वापि तान्यभिभूतानि, सन्तोषेण पुरा किल । चारित्रधर्मराजस्य, मन्त्रपालेन लीलया ।।२५७|| तन्निमित्तः समस्तोऽयं, जातोऽमीषां परस्परम् । कलहो वत्स! साटोपमन्तरङ्गमहीभुजाम् ॥२५८।। मयाऽवाच्यथ पूर्ण मे, देशदर्शनकौतुकम् । साम्प्रतं तातपादानां, समीपे गन्तुमुत्सुकः ॥२५९।। मात्रोक्तं गम्यतां वत्स !, निरूप्य जनचेष्टितम् । अहमप्यागमिष्यामि, तत्रैव तव सन्निधौ ॥२६॥ ततोऽहमागमं क्षिप्रं, निश्चित्येदं प्रयोजनम् । ततस्तातामुना मैत्री, घ्राणेन न तवोचिता ॥२६१॥ यावनिवेदयत्येवं, विचारो निजबीजिने । मार्गानुसारिता तावदागाद् धवलभूपते ! ॥२६२॥ समर्थितं तया सर्व, विचारकथितं वचः। त्यजामि घ्रागमित्येवं, बुधस्यापि हृदि स्थितम् ।।२६३॥ इतो भुजङ्गतायुक्तो, घ्राणलालनलालसः । मन्दः सुगन्धिगन्धानां, सदाऽन्वेषणतत्परः ॥२६४॥ तत्रैव नगरे भ्राम्यन् , लीलावत्या निजस्वसुः । देवराजस्य भार्याया, ययौ गेहे कदाचन ॥२६५।। सपत्नीपुत्रघातार्थ तस्मिन्नेव क्षणे तया । आत्तो डोम्बकराद् गन्धसंयोगो मारणात्मकः ॥२६६।। तां गन्धपुटिका द्वारे, मुक्त्वा लीलावतीगृहे । प्रविवेश स च प्राप्तो, मन्दः सा तेन वीक्षिता ॥२६७॥ Jain Education 1! For Private & Personel Use Only Willainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy