________________
श्रीधर्मरत्न
प्रकरणम् ॥९६॥
कृतज्ञताख्योगुण: १९
SEXERRRRRRRRRRRRRRRRRR
मयोक्तं दारकः कोऽयं? किं वा गाढप्रहारितः । कुत्र वा नीयते ? लग्नाः, के चामी परिचारका: १ ॥२४॥ अम्बिका स्माह हे वत्स 1, विद्यतेऽत्र महागिरौ । राजा चारित्रधर्माख्यो, यतिधर्मश्च तत्सुतः॥२४॥ तस्यायं संयमो नाम, पुरुषःप्रौढपौरुषः । एकाकी च क्वचिद् दृष्टो, महामोहादिशत्रुभिः ॥२४२।। बहुत्वादथ शत्रूणां, प्रहारैर्जर्जरीकृतः । अयं निःसारितो वत्स !, रणभूमेः पदातिमिः ॥२४३॥ प्रक्षिप्य दोलिकायां च, नीयतेऽसौ स्वमन्दिरे । अस्य चात्र पुरे जैने, सर्वे तिष्ठन्ति बान्धवाः ॥२४॥ ततोऽहं कौतुकाक्षिप्तस्तात ! मात्रा समं क्षणात् । तेषामनु समारूढो, विवेकगिरिमस्तके ॥२४५॥ अथ तत्र पुरे जैने, राजमण्डलमध्यगः। दृष्टश्चित्तसमाधाने, मण्डपे स महानृपः ॥२४६।। सत्यशौचतपस्त्यागब्रह्माकिञ्चनतादयः । अन्येऽपि मण्डलाधीशा, अम्बया दर्शिता मम ।।२४७|| इतश्च तैनरैस्तूर्ण, समानीतः स संयमः । दर्शितोऽस्य नरेन्द्रस्य, वृत्तान्तश्च निवेदितः ॥२४८॥ तहेतुकस्ततस्तात !, मोहचारित्रभूभुजोः । तदा महाहवो जज्ञे, विश्वस्यापि भयङ्करः ॥२४९॥ क्षणाच्चारित्रभूपालः, सबलो बलशालिना । जिग्ये मोहनरेन्द्रेण, नंष्ट्वा स्वस्थानमाश्रयत् ॥२५॥ ततः परिणतं राज्य, महामोहमहीपतेः । चारित्रधर्मराजस्तु, निरुद्धोऽभ्यन्तरे स्थितः ॥२५१॥ मार्गानुसारिताऽवादीत् , दृष्टं वत्स ! कुतूहलम् ? । स्पष्टं दृष्टं मयाऽप्युक्तमम्बिकायाः प्रसादतः ॥२५२॥ केवलं कलहस्यास्य, मूलमम्ब ! परिस्फुटम् । अहं विज्ञातुमिच्छामि, प्रोचेऽम्बा शृणु पुत्रक ! ॥२५३॥
तत्र विमलकुमार कथा। ॥९६॥
Jain EducatalVIVIL
For Private & Personal use only
Jijainelibrary.org