SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ SEXXXXXXXXXXXXXXXXXX साऽपि मां वीक्ष्य संजज्ञे, क्षिप्तेव सुखसागरे । सिक्तेवामृतसेकेन, प्राप्तराज्येव हर्षभाक् ॥२२६॥ ततः कृतप्रणामोऽहं, प्रोक्तो दत्ताशिषा तया । कस्त्वं वत्स !? मयाऽप्युक्तं, धिषणाबुधभूरहम् ॥२२७।। अपृष्ट्वा पितरौ मातर्देशकीलिकया गतः। अथो सा मां परिष्वज्य, प्रोचे हर्षाश्रुपूर्णदृक् ॥२२८॥ धन्याऽस्मि कृतकृत्याऽस्मि, यद् दृष्टस्त्वं मयानघ ! । त्वं न जानासि मां वत्स!, लघुर्मुक्तोऽसि यत्तदा ।।२२९॥ अहं हि बुधराजस्य, सर्वकार्येषु सम्मता | धिषणाया वयस्याऽस्मि, नाम्ना मार्गानुसारिता ॥२३०॥ अतो मे भागिनेयस्त्वं, सुन्दरं कृतवानसि । यद् देशदर्शनाकासी, नगरेऽत्र समागमः ॥२३१।। येनेदं नगरं दृष्ट, भूरिवृत्तान्तसंयुतम् । तेन वत्सेक्षितं सर्व, भुवनं सचराचरम् ॥२३२॥ मयोक्तमम्ब ! यद्येवं, तन्मे संदर्शयाधुना । पुरमेतत्तथैवाम्बा, मम सर्वमदीदृशत् ॥२३३॥ अथैकत्र मया दृष्टं, पुरं तत्र महागिरिः । तच्छिखरेऽतिरम्यं च, निविष्टमपरं पुरम् ॥२३४॥ मयोक्तमम्ब ! किनाम, पुरमेतदवान्तरम् । किनामाऽयं गिरिः? किं च शिखरे दृश्यते पुरम् ? ॥२३५॥ अम्बा जगाद वत्सेदं, पुरं साविकमानसम् । विवेकोऽयं गिरिः शृङ्गमप्रमत्तत्वमित्यदः ॥२३६॥ इदं तु भुवनख्यातं, वत्स ! जैन महापुरम् । तव विज्ञातसारस्य, कथं प्रष्टव्यतां गतम् ॥२३७।। यावत्सा कथयत्येवं, तात! मह्यं स्फुटाक्षरम् । तावज्जातोऽपरस्तत्र, वृत्तान्तः श्रूयतां स तु ॥२३८॥ गाढं प्रहारनिर्मिन्नो, नीयमानः सुविह्वलः । पुरुषर्वेष्टितो व्यक्षि, मयैको राजदारकः ॥२३९॥ SXEKXXXXXXXXXXX&&&& Jain Education For Private Personel Use Only Mainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy