________________
श्रीधर्मरत्न
प्रकरणम्
।। ९५ ।।
Jain Education
अधस्ताद्भालशैलस्य, वरापवरकद्वया । ददृशेऽन्तः स्फुरद्ध्वान्ता, नासिकानामिका गुहा ॥ २१२ ॥ तद्गुहाश्रयिणा घ्राणाभिधेन शिशुना समम् । शिव्या भुजङ्गतानाम्न्या, मन्दो मैत्रीं मुदाऽकरोत् ॥ २१३|| दध्यौ बुधस्तु शुद्धात्मा, सतामन्यस्त्रिया सह । आलापोऽपि न युक्तः स्यान्मित्रतायास्तु का कथा १ || २१४ ॥ तन्मे भुजङ्गता ह्येषा, हेया घ्राणस्त्वसौ ध्रुवम् । स्वक्षेत्राद्रिगुहामध्यवास्तव्योऽर्हति पालनम् ॥ २१५ ॥ एवं ध्यात्वा युधः कृत्वा, घ्राणेन सह मैत्रिकाम् । उभाभ्यामपि मन्दस्तु, खखसद्म समेतुः (१) ॥ २१६ ॥ अथो भुजङ्गतादोषात्, सुगन्धाघ्राणलम्पटः । अमन्दमन्दधीर्मन्दः, प्राप दुःखं पदे पदे ॥ २१७|| इतश्च यौवनारूढो, विचारो बुधदारकः । कथञ्चिन्निरगाद् गेहाद्, देशदर्शनकाम्यया ॥२१८॥ बहिरङ्गान्तरङ्गेषु, भूरिदेशेषु भूरिशः । स भूरिकौतुको भ्रान्त्वा, तदाऽगानिजमन्दिरे ॥ २१९ ॥ अथ तस्मिन् समायाते, मुदितौ धिषणाबुधौ । संतुष्टं राजकं सर्व, भृशमानन्दितं पुरम् ॥ २२० ॥ वृत्ते महाविमर्देन, ततश्रागमनोत्सवे । साऽज्ञायि मैत्रिका तेन, घ्राणेन बुधमन्दयोः ॥ २२१ ॥ ततः पितरमेकान्ते, विचारः प्रोचिवानिति । तात ! घ्राणेन ते मैत्री, न भव्या शृणु कारणम् ॥ २२२ ॥ तदाऽहं तातमम्बां चानापृच्छय निरगां गृहात् । देशान् दिदृक्षुरभ्राम्यं, तातदेशेषु भूरिषु ॥ २२३ ॥ अन्यदा भवचक्राख्ये, सम्प्राप्तोऽहं महापुरे । तत्र राजपथेऽपश्यमेकां प्रवरसुन्दरीम् ||२२४|| ai दृष्ट्वा तात ! जातोsहं, प्रमोदपुलकाङ्कितः । चित्तमाद्रीभवेद् दृष्टे, ह्यविज्ञातेऽपि सज्जने ॥ २२५ ॥
For Private & Personal Use Only
कृतज्ञताख्योगुणः
१९
तत्र विमलकुमारकथा ।
॥ ९५ ॥
lainelibrary.org