SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ वृद्धानुग श्रीधर्मरत्नप्रकरणम् त्वाख्यो गुणः ॥८२॥ व्याघुटय यदि वाऽऽगच्छेत् , तदा लोहविनिर्मिते । यन्त्रे क्षिप्त्वा तथा पिंष्याद्यथाऽयं भस्मसाद्भवेत् ॥२५॥ अथ स्पष्टमभाषिष्ट, सूरिभों मनुजाधिप! । नान्तरङ्गजनध्वंसे, बाह्योपायः प्रवर्त्तते ॥२५४|| बभाषे भूपतिर्भूयो, भक्तितस्तं गुरुं प्रति । स्वामिन्नुपायः कस्तर्हि ?, प्रोचेऽनूचानपुङ्गवः ॥२५५॥ ज्ञानदर्शनचारित्रतपःसन्तोषलक्षणम् । सुयन्त्रमप्रमादाख्यं, साधवो वाहयन्ति यत् ॥२५६।। तदेवान्तरवैरीभध्वंसे पश्चाननायते । अदृष्टपारसंसारवार्द्धः प्रवहणायते ॥२५७॥ यतिधर्मग्रहाशक्ती, तछ्रुत्वा नृपमध्यमौ । सम्यक्त्वमूलमनघं, गृहिधर्म समाश्रितौ ॥२५८ गाढं विज्ञपयामास, मनीषी तु मुनीश्वरम् । भगवन् ! देहि मे दीक्षा, भवाम्भोनिधिमङ्गिनीम् ॥२५९॥ वत्स! मास प्रमादीस्त्वमेवमुक्ते च सरिणा । ततो मनीषिणं प्रोचे, राजा विस्मितमानसः ॥२६॥ प्रसीद मद्गृहं ह्येहि, मुदं देहि क्षणं च मे । येनाहं ते महाभाग ! कुर्वे निष्क्रमणोत्सवम् ॥२६॥ ततो राजानुवृत्त्येष, ययौ नृपनिकेतनम् । ददानो राज्ञ आनन्दं, तत्रास्थात् सप्तवासरीम् ।।२६२॥ दिनात्ततोऽष्टमे चाहि, कृतस्नानविलेपनः । आमुक्तरत्नालङ्कारः, सदशांशुकशोभितः ॥२६३।। प्रधानस्यन्दनारूढः, सारथीभूतभूपतिः । जङ्गमः कल्पशाखीव, ददद्दानमनुत्तरम् ॥२६॥ वीज्यमानश्यामराभ्यां, श्वेतच्छत्रेण राजितः । वैतालिकैः स्तूयमाननिबिडव्रतसंस्तवः ॥२६५॥ अत्यद्भुतगुणग्रामरामणीयकरञ्जितैः । तदैवोपगतैर्देवैः, स्तूयमानः सुरेन्द्रवत् ॥२६६॥ तत्र मध्यमबुद्धिचरि तम् । ॥८२॥ in Educatan For Private & Personal Use Only Lainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy