________________
नमः सद्दर्शनज्ञानवीर्यानन्दमयाय ते। अनन्तजन्तुसन्तानत्राणप्रवणचेतसे ॥२३९॥ एवं युगादितीर्थेशं, ये स्तुवन्ति सदा नराः । देवेन्द्रबृन्दवन्द्यास्ते, प्राप्नुवन्ति महोदयम् ॥२४॥ इति तीर्थपतिं स्तुत्वा, सचिवेशः प्रमोदभाक् । नत्वा च सूरिपादाब्जमश्रौषीद्देशनामिति ॥२४१॥ यथा नराविधा ज्ञेया, जघन्योत्तममध्यमाः । तेषु च प्रथमे रक्ताः, स्पर्शने दुःखदायके ॥२४२॥ समतावर्तिनो मध्याः, सदा तद्विष उत्तमाः। क्रमेण नरकस्वर्गशिवाख्यगतिगामिनः ॥२४३।। मनीषिमध्यराजाद्यास्तछ्रुत्वा भाविता भृशम् । बालस्त्वेकमनास्तस्थौ, पश्यन् मदनकन्दलीम् ॥२४४॥ मित्राम्बाप्रेरणाद् देव्याः, सम्मुखं सम्प्रधावितः । अये ! स एव बालोऽयमित्यूचे कुपितो नृपः ॥२४५॥ ततो राजभयानष्टकामावेशः स बालकः । नश्यन् भग्नगतिभूमौ, न्यपतद्गतचेतनः ॥२४६॥ अथ राज्ञा गुरुः पृष्टः, किं पुमानेष ईदृशः। प्रौढस्पर्शनदोषेणेत्यूचे सूरिपि स्फुटम् ॥२४७॥ धराधीशः पुनः प्रोचे, भाव्यस्य किमतः परम् ? । गुरुः प्राह क्षणादेष, कृच्छ्रात् पाप्स्यति चेतनाम् ॥२४८|| इतो नश्यन् कर्मपूरग्रामासन्नसरोवरे । श्रमखिन्नशरीरश्च, स्नानायैष निमङ्क्षयति ॥२४९॥ तत्र स्नानकृते पूर्वमवतीणां श्वपाकिकाम् । स्पृशन्नेकेन बाणेन, चण्डालेन हनिष्यते ॥२५०॥ नरकेषु ततो गन्ता, ततस्तिर्यक्ष्वनन्तशः। भूयोऽपि नरकेष्वेवं, भ्रमिष्यत्येष संसृतौ ॥२५१॥ श्रुत्वेति मन्त्रिणं प्रोचे, नृपतिः क्रोधदुर्धरः । भो भो ! निर्वासय क्षिप्रं, मद्देशात् स्पर्शनं ह्यमुम् ॥२५२ ॥
Jain Eduetan
!!
For Private & Personel Use Only
IGJllnelibrary.org