________________
श्रीधर्मरत्नप्रकरणम्
वृद्धानुगत्वाख्योगुणः
॥८१॥
उद्यानपालकमुखात्, श्रुत्वा गुर्वागमं मुदा । अधिष्ठितः स्वया मात्रा, मनीष्याह्वास्त मध्यमम् ॥२२५॥ सोऽपि बालं हठेनापि, समाहूय त्रयोऽप्यथ । तत्रोद्यानवरे जग्मुर्भूरिकौतुकसकुले ॥२२६॥ प्रमोदशेखराभिख्ये, चैत्ये तत्र जिनेशितुः। बिम्बं युगादिदेवस्य, नती मध्यमनीषिणौ ॥२२७॥ देवदक्षिणभागस्थं, तौ नत्वा तं मुनीश्वरम् । शुद्धं शुश्रुवतुर्धर्म, कर्ममर्मप्रदर्शनम् ॥२२८॥ अम्बाकुमित्रदोषेण, स बालः शून्यमानसः । गुरुं ग्राम्य इवानत्वा, भ्रात्रोः पार्श्वमुपाविशत् ॥२२९॥ इतश्च जिनसद्भक्तसुबुद्धिसचिवेरितः। समं मदनकन्दल्या, चैत्ये तत्रागमन्नृपः ।।२३०॥ नत्वा जिनं गुरूंश्चापि, राजाऽश्रौषीत् सुदेशनाम् । सुबुद्धिस्तु जिनाधीशं, स्तोतुमित्थं प्रचक्रमे ॥२३२।। जय देवाधिदेवाधिव्याधिवैधुर्यनाशन ! । सर्वदा सर्वदारिद्रयमुद्राविद्रावणक्षम ! ॥२३२॥ अगण्यपुण्यकारुण्यपण्यापण वृपध्वज ! । जय सन्देहसन्दोहशैलदम्भोलिसन्निभ ! ॥२३३॥ स्फुरत्कषायसन्तापसम्पातशमनामृत ! । जय संसारकान्तारदावपावकपावन ! ॥२३४॥ सदा सदागमाम्भोजविबोधनदिनप्रभुम् । नत्वा न त्वा भवे भावि, भविनः पतनं खलु ॥२३५॥ ये देवदेव ! गम्भीरनामे ? नाभेय ? भूरिभिः । त्वद्गुणैः स्वं नियच्छन्ति, ते मुक्ताः स्युर्महाद्भुतम् ॥२३६॥ देव ! त्वन्नामसन्मन्त्री, येषां चित्ते चकास्ति न । मोहसर्पविषं तेषां, कथं यातु क्षयं क्षणात् १ ॥२३७॥ परिस्पृशन्ति ये नित्यं, त्वदीयं पदपङ्कजम् । तेषां तीर्थेश्वरत्वादिपदवी न दवीयसी ॥२३८॥
तत्र मध्यमबुद्धिचरि
॥८१॥
Jain Education
X
For Private Personel Use Only
jainelibrary.org