SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ बालस्त्वम्बाकुमित्राभ्यां, प्रेर्यमाणो मुहुर्मुहुः । शत्रुमर्दनराट्सौधं, प्रदोषेऽगाद् दुराशयः॥२१॥ तदा मण्डनशालायां, देवी मदनकन्दली । आत्मानं मण्डयन्त्यासीद् , विविधैर्वरवर्णकैः ॥२१२॥ स पापो दैवयोगेनाविशद्वासगृहे द्रुतम् । अस्वाप्सीन्नृपशय्यायामहो ! स्पर्श इति ब्रुवन् ॥२१३॥ इतश्च नृपमायान्तं, दृष्ट्वा बालो भयाकुलः । शय्यातो न्यपतद् भूमौ, ज्ञातश्चासौ महीभुजा ॥२१४॥ क्रुदो राट् स्वनरं प्रोचे, रे रे ! एष नराधमः । सौधेऽत्रैव कदो हि, सर्वामपि तमस्विनीम् ॥२१५।। ततस्तेन निबद्धोऽसौ, स्तम्भे दम्भोलिकण्टके । उसिक्तस्तप्ततैलैश्च, कशाभिरभिताडितः ।।२१६॥ अगुल्यग्रेषु विक्षिप्तास्तस्यायस्यः शलाकिकाः । क्रन्दतोऽस्य वराकस्य, सा ययौ सकला निशा ।।२१७॥ प्रातः क्रुद्धनृपादेशात्, तमारक्षः स्वपूरुषैः । आरोपयत् खरेऽकर्णे, चूर्णगैरिकपुण्ड्रकम् ।।२१८॥ शिरोधृतकलिजं च, निम्बपत्रस्रजाञ्चितम् । कश्चित् केशेषु दधेऽथ, भल्लूकमिव लुब्धकः ॥२१९॥ जघानान्यश्चपेटाभिर्भूतार्तमिव मान्त्रिकः । यष्टयाऽन्योऽताडयद् गेहविष्टमिव कुक्कुरम् ॥२२०॥ एवं विडम्बनापूर्व, भ्रामयित्वाऽखिले पुरे । पादपे सायमुद्रध्य, पुरारक्षोऽविशत् पुरम् ॥२२१॥ अथो दैवनियोगेन, त्रुटितस्तस्य पाशकः । पतितश्च क्षितौ बालः, क्षणात् सम्पाप्तचेतनः ॥२२२॥ स्वमन्दिरे शनैरागात् , प्रच्छन्नस्तस्थिवान् सदा । गाढभीत्या नरेन्द्रस्य, न निर्याति स्म कुत्रचित् ॥२२३॥ इतश्च तत्पुरोद्याने, स्वविलासाहये वरे । प्रबोधनरतिर्नाम, मुनीन्द्रः समवासरत् ॥२२४॥ HainEducation For Private 3 Personal use only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy