________________
श्रीधर्मरत्नप्रकरणम्
॥ ८० ॥
Jain Education International
वृद्धोपदेशतिग्मांशुं प्राप्य यस्य मनोऽम्बुजम् । न प्राबोधि कथं तत्र, गुणलक्ष्मीः समाश्रयेत् १ ॥ १९७॥ कथं तस्य वराकस्य, पापपङ्कः प्रहीयताम् १ । वृद्धवाग्वारिभिर्येन, नात्मा प्राक्षालि कर्हिचित् ॥ १९८ ॥ वृद्धोपजीविनां पुंसां, करस्था एव सम्पदः । किं कदाऽपि विषीदन्ति, फलैः कल्पदुभाजिनः ॥ १९९ ॥ वृद्धोपदेशबोहित्थैः, सत्काष्ठैर्गुणयन्त्रितैः । तीर्यते दुस्तरोऽप्येष भविकै रागसागरः ||२०० || मिथ्यात्वादिनगोत्तुङ्गशृङ्गभङ्गाय कल्पते । देहिनां वृद्धसेवोत्थविवेककुलिशो ह्ययम् ॥२०१॥ नृणां तमिस्रमश्रान्तं, क्षीयते क्षणमात्रतः । वृद्धानुसेवया नूनं, प्रभयेव प्रभापतेः ॥ २०२॥ एकैव वृद्धसत्सेवाखातिवृष्टिर्निपेतुषी । खान्तशुक्तिषु जन्तूनां प्रसूते मौक्तिकं फलम् ॥२०३॥ विश्वविद्यासु चातुर्य, विनयेष्वतिकौशलम् । कलयन्ति गतक्लेशं, वृद्धसेवापरा नराः || २०४ || शरीराहारसंसारकामभोगेष्वपि स्फुटम् । विरज्यति नरः क्षिप्रं वृद्धैस्तत्त्वे प्रबोधितः ॥२०५॥ ज्ञानध्यानादिशून्योऽपि, वृद्धान् यदि महीयते । विलङ्घ्य भवकान्तारं तदा याति महोदयम् ॥ २०६ ॥ कुर्वन्नपि तपस्तीव्रं, विदन्नप्यखिलं श्रुतम् । नासादयति कल्याणं, चेद् वृद्धानवमन्यते ॥२०७॥ न तल्लोके परं धाम, न तत्सौख्यमखण्डितम् । यद् वृद्धवरिवस्याकृमाप्नोति पुरुषः क्षणात् ॥ २०८॥ यामाप्य जायते नृणां स्वप्नेऽपि न हि दुर्मतिः । चिरं विजयतां सैषा, वृद्धपादानुगामिता ॥ २०९ ॥ एवं तस्य वचः श्रुत्वा, मनीषी मोदमेदुरः । स्वं धामागमदेषोऽपि, धर्मकर्मरतोऽभवत् ॥ २१० ॥
For Private & Personal Use Only
वृद्धानुगतत्वाख्यो
गुणः १७
तत्र मध्य
मबुद्धिचरितम् । ॥ ८० ॥
www.jainelibrary.org