SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Jain Education मनीषिणमसौ प्रोचे, पद्मकोशीकृताञ्जलिः । अद्यप्रभृति बालस्य, सङ्गोऽत्याजि मयाऽनघ । ॥ १८६॥ इदानीमाश्रयिष्यामि, वृद्धमार्गानुगामिताम् । जलाञ्जलिमलं दास्ये, सकलक्लेशसंहतेः ॥ १८७॥ वृद्धानुगोऽभविष्यं चेत्वमिवाहं पुराऽपि हि । असहिष्ये तदा भ्रातर्नैवं क्लेशवशां दशाम् ॥ १८८॥ ते धन्या पुण्यभाजस्ते, ये हि वृद्धानुगाः सदा । यद्वा वृद्धानुगामित्वं, स्वयं सिद्धं व्रतं सताम् ॥ १८९॥ तथाहि विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् १ ॥ १९० ॥ परं ममापि धन्यत्वं किश्वनाद्यापि विद्यते । यदहं त्वमिवाभूवं, वृद्धमार्गानुगामुकः ॥१९१॥ किश्च -- रागादिभिः समं याति शान्ति स्मरहुताशनः । धत्ते प्रसन्नतां स्वान्तं, ध्रुवं वृद्धानुगामिनाम् ॥ १९२॥ अहो ! मातेव हितकृद्, दीपिकेवार्थदर्शिनी । विनेत्री गुरुवाणीव, पुंसां वृद्धानुगामिता ॥ १९३॥ माताऽपि विकृतिं यायात्, कदाचिद्दैवयोगतः । न पुनर्वृद्धसेवेयं, कदाऽपि विहिता सती ॥ १९४॥ वृद्धवाक्यामृतस्यन्दसुन्दरे तस्य मानसे । ज्ञानराजमरालीयं, सुस्थिरां स्थितिमश्नुताम् ॥ १९५ ॥ यो वृद्धमण्डलीं मन्दोऽनुपास्यैव समीहते । तत्त्वं विज्ञातुमत्युचैः, स इच्छेद्गमनं करैः ॥१९६॥ For Private & Personal Use Only jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy