________________
श्रीधर्मरत्नप्रकरणम्
॥ ७९ ॥
Jain Education
राज्ञाऽधुना तु रक्षार्थमर्पितोऽस्ति ममैव सः । मध्यमः प्राह यद्येवं, तर्हि तं दर्शयाशु मे ॥ १७५ ॥ तेनाप्यदर्शि चर्मास्थिशेषाङ्गमुपलक्ष्य तम् । मध्योऽयाचत कारुण्यात्, सोऽपि चास्मै समार्पयत् ॥ १७६ ॥ उक्तश्च मध्यमस्तेन, राजद्रौद्यमिदं ननु । इतोऽपसर शीघ्रं भो !, आत्मानं रक्षिताऽस्म्यहम् ॥ १७७॥ महाप्रसाद इत्युक्त्वा, बालमादाय सोऽञ्जसा । भीतभीतोऽपचक्राम क्रमात् प्राप खपत्तनम् ॥ १७८॥ कथंकथमपि प्राप, बलितां बालकस्ततः । आख्यन्नन्दनवन्मध्यबुद्धेः स्वं वृत्तमुच्चकैः ॥ १७९॥ मनीष्यपि तदा तत्रागमल्लोकानुवृचितः । तत्कुडयान्तरितोऽश्रौषीत्, सर्व बालविचेष्टितम् ॥१८०॥ ततस्तमाह हे भ्रातः ! कथितं ते मया पुरा । यदेष स्पर्शनः पापः, सर्वदोषनिकेतनम् ॥ १८१ ॥ बालोऽप्यजल्पदद्यापि, यदि तामायतेक्षणाम् । प्राप्नुयां कोमलस्पर्शा, तन्मे दुखं न किश्चन ॥ १८२ ॥ दध्यौ मनीषी तच्छ्रुत्वा, ही बालोऽयं वराककः । नैवोपदेशमन्त्राणां कालदष्ट इवोचितः ॥ १८३॥ किं च
एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याप्यमार्गचलने खलु कोऽपराधः ॥ १८४॥ मध्यबुद्धिरथोत्थाप्य, प्रोक्तस्तेन वचस्विना । किं त्वयाऽपि विनंष्टव्यं विलग्नेनास्य पृष्ठतः १ ॥१८५॥
१ तत्र कुड्यान्तरेऽश्रौषीत् पा०
For Private & Personal Use Only
वृद्धानुगतत्वाख्यो
गुणः १७
तत्र मध्य
मबुद्धिचारतम् ।
॥ ७९ ॥
jainelibrary.org