SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ तच्छत्वा बालको जज्ञे, कजलश्यामलाननः । अयोग्योऽयमिति ज्ञात्वा, मध्यमो मौनमाश्रयत् ॥१६२॥ इतश्चास्तमिते सूर्ये, निःसृत्य निजमन्दिरात् । गन्तुं प्रववृते बालोऽभिमुखं नृपवेश्मनः॥१६३॥ भ्रातृस्नेहविमूढात्मा, मध्यस्तत्पृष्ठतोऽलगत् । केनापि पुरुषेणाथ, बालोऽवध्यत निश्चलम् ॥१६॥ उत्क्षिप्त आरटन् व्योम्नि, ततो मध्यस्तमन्वगात् । रे रे क्व यासि यासीति, प्राप्तः प्राप्त इति ब्रुवन् ॥१६५॥ गृहीतबालः स पुमान् , क्षणेनाभूददर्शनः । भ्रातृप्राप्त्याशया मध्यस्तथापि ववले न हि ॥१६६॥ बम्भ्रमन् सप्तमे चाहि, पुरं प्राप कुशस्थलम् । नोदन्तमात्रमप्याप, स्वानुजस्य परं क्वचित् ॥१६७॥ ततो भ्रातृवियोगातः, कण्ठबद्धशिलोऽवटे । पतन् नन्दनसंज्ञेन, राजपुत्रेण वारितः॥१६८॥ पृष्टश्च नन्दनायाख्यत् , तं वृत्तान्तमशेषतः । स ऊचे भद्र ! यद्येवं, तीष्टं सिद्धवत् तव ॥१६९॥ तथाहिहरिश्चन्द्रो नृपोत्रास्ति, स चारिभिरभिद्रुतः, । खेचरं रतिकेल्याख्यं, मित्रं प्रोचे कृताञ्जलिः ॥१७०॥ सखे ! कुरु तथा शत्रुविघातं स्याद्यथा मम । ततो नृपाय स ददौ, विद्यां शत्रुविधातिनीम् ॥१७१।। ततः पाण्मासिकी राजा, पूर्वसेवामचीकरत् । अधुना वर्तते भद्र, ! साधनावसरः खलु ॥१७२॥ ततो होमार्थमानीत, आकाशे रतिकेलिना । इतोऽष्टमे दिने कोऽपि, पुमान् लक्षणलक्षितः॥१७३।। पोषं पोपं तदङ्गासृपललैस्तर्पणापरः । विद्या प्रसाध्य राद् चक्रे, पश्चात्सेवां दिनाष्टकम् ॥१७॥ For Private Personal Use Only
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy