________________
श्रीधर्मरत्नप्रकरणम्
वृद्धानुगतत्वाख्योगुणः
॥७८॥
:१७
कुतूहलवशेनाथ, द्वारे संस्थाप्य मध्यमम् । मध्ये प्रविष्टः सहसा, स बालस्तस्य समनः ॥१४८॥ तत्र कामस्य शयने, कोमलामलतूलिके । मित्राम्बादोषतो बालः, शेते स्म गतपुण्यकः ॥१४९॥ इतश्च तत्रैव पुरे, बहिरङ्गनरेशितुः । शत्रुमर्दननाम्नोऽभृत, प्रिया मदनकन्दली ॥१५०॥ साऽऽगत्य तत्र कामोऽयं, शय्यास्थ इति भक्तितः। स्पृशन्ती सर्वगात्रेषु, तं बालकमपू पुजत् ॥१५१॥ ययौ खमन्दिरे राज्ञी, प्रपूज्य च रतीश्वरम् । बालस्तु तस्याः संस्पर्शवश्योऽभून्नष्टचेतनः ॥१५२॥ मया कथं नु लभ्येयमिति चिन्तापरायणः । अल्पोदके मीन इव, तत्रास्थाच्च स दुःखितः ॥१५३॥ बालः किं चिरयत्येषः ? इति मध्यमबुद्धिकः । प्राविशत् कामधामान्तस्तदवस्थं ददर्श तम् ॥१५४॥ उत्थापितस्ततोऽनेन, यावदाह न किञ्चन । बालस्तावच्च तत्रत्यव्यन्तरेण न्यबध्यत ॥१५५॥ आपात्य तं महीपीठे, सर्वाङ्गीणमयात्यत । बहिरक्षेपि लोकेभ्यस्तद्वृत्तं च न्यवेद्यत ॥१५६।। ततो गाढतरं प्रार्थ्य, व्यन्तरान्मध्यबुद्धिना । लोकैश्च मोचितो बालो, निन्ये च निजमन्दिरे ॥१५७॥ मध्यबुद्धिमथो बालोऽपाक्षीद् बन्धो ! किमु त्वया । व्युदैक्षि वासभवनान्निर्यान्ती काऽपि नायिका ? ॥१५८॥ स प्राहादर्शि यद्येवं, हे भ्रातस्तर्हि कस्य सा ? । स स्माहात्रैव भूपस्य, देवी मदनकन्दली ॥१५९॥ तदाकर्ष्यावदद् बालः, कथं सा मादृशामिति । मध्यमेन तदाकूतं, ज्ञातमुक्तं च तं प्रति ॥१६०॥ भ्रातः ! केयमविद्या ते, यदेवं तप्यसे किमु । त्वयाऽधुनैव व्यस्मारि, यत् कृच्छ्रेणासि मोचितः १ ॥१६१॥
वत्र मध्यमबुद्धिचरि
तम्। ॥७८॥
Jain Education Interational
For Private Personal Use Only
www.jainelibrary.org