SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ तथव दिग्धेऽर्थे हिमापत देवदम्य ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते । शुक्लरूपं पुनर्डिम्भ, प्रविष्टं तनुषु क्षणात् ॥१३४॥ कालज्ञेन ततश्चित्ते, सभार्येण विचिन्तितम् । पश्याहो! धन्यताऽमीषां, यैः प्राप्तं व्रतमाहतम् ॥१३५॥ वयं तु देवभावेन, व्यर्थकेनात्र वञ्चिताः । यद्वा सम्यक्त्वसम्प्राप्त्या, सुधन्या वयमप्यहो ॥१३६॥ सहर्षावथ तौ सूरेः, प्रणम्य चरणद्वयम् । तेनानुशिष्टौ स्वस्थानं, प्रापतं देवदम्पती ॥१३७।। इदं पुत्र ! मया तुभ्यं, कथितं मिथुनद्वयम् । सन्दिग्धेऽर्थे हि तत् कालविलम्बो गुणभाजनम् ॥१३८॥ यदादिशति मामम्बा, कर्ताऽहं तत्तथैव हि । इति जल्पन मुदा मध्यः, प्रपेदे जननीवचः॥१३९॥ बालोऽप्यथ स्वमित्रेण, मात्राऽकुशलमालया । अधिष्ठितोऽभवद् गाढमकृत्यकरणाहतः॥१४०॥ कुविन्दडुम्बमातङ्गजातीयास्वपि तद्वशः । अतिलौल्येन नारीषु, प्रावर्तत निरन्तरम् ।।१४१॥ ततश्च गतलज्जोऽयं, पापिष्ठः कुलदूषणः । एवं स निन्द्यते लोकैर्न च पापान्निवर्तते ॥१४२॥ अथ निन्दापरे लोके, स्नेहविह्वलमानसः। लोकापवादभीरुस्तं, मध्यबुद्धिरभापत ॥१४३॥ भ्रातनों युज्यते कर्तु, तव लोकविरुद्धकम् । अगम्यगमनं निन्द्यं, सपापं कूलदूषणम् ॥१४४|| स प्राह विप्रलब्धोऽसि, नूनं बन्धो ! मनीषिणा । नाहोऽयमुपदेशानां, मौन्यभूदिति मध्यमः ॥१४५॥ अपरेधुर्मधौ बालः, समं मध्यमवुद्धिना । ययौ लीलावरोद्यानसंस्थिते कामधामनि ॥१४६॥ तत्र चैक्षिष्ट पार्श्वस्थं, गुप्तस्थानव्यवस्थितम् । कामस्य वासभवनं, मन्दमन्दप्रकाशकम् ॥१४७॥ JainEducation TRI For Private Personal Use Only nebrary
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy