________________
श्रीधर्मरत्नप्रकरणम्
&&&&&
वृद्धानुगतत्वाख्योगुणः
॥७७॥
आहत्य तच्च शुक्लेन, वर्द्धमानं निवारितम् । ततो द्वे अपि ते कृष्णे, निर्गते गुरुपर्षदः ॥१२२॥ गुरुः प्रोवाच भो भद्रा, ! न दोषो वोत्र कश्चन । अज्ञानपापाभिधयोः, किन्त्वसौ कृष्णडिम्भयोः॥१२३॥
तथाहियत्तावदिदमज्ञानं, युष्मदेहाद्विनिर्गतम् । एतदेव समस्तस्य, दोषवृन्दस्य कारणम् ॥१२४॥ अनेन वर्तमानेन, शरीरे जन्तवो यतः । कार्याकार्य न जानन्ति, गम्यागम्यादिकं तथा ॥१२५॥ ततः पापं निबध्नन्ति, दुःखदन्दोलिदायकम् । यत्तु पूर्व सितं डिम्भं, तदार्जवमुदाहृतम् ॥१२६॥ अज्ञानाद्बर्द्धमानं हि, पापं वोऽवार्यतामुना । रक्षितानि मया यूयमत एवेदमाख्यत ॥१२७॥
यतःधन्यानामार्जवं येषामेतच्चेतसि वर्तते । अज्ञानादाचरन्तोऽपि, पापं ते स्वल्पपातकाः॥१२८॥ तदेवंविधभावानां, भद्राणां युज्यतेऽधुना । अज्ञानपापे निधूय, सम्यग्धर्मनिषेवणम् ॥१२९॥ उपादेयो हि संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, यतोऽन्यद् दुःखकारणम् ॥१३०॥ अनित्यः प्रियसंयोग, ईर्ष्याशोकादिसकुलः । अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥१३१॥ अनित्यं सर्वमेवेह, भवे वार्द्धितरङ्गवत् । अतो वदत किं युक्ता, क्वचिदास्था विवेकिनाम् ? ॥१३२।। श्रुत्वेति राज्ये संस्थाप्य, शुभाचाराभिधं सुतम् । प्रात्राजीजुभूपालो, जायापुत्रवधूयुतः॥१३३॥
&&&&&&XXXXXXXXXXX
तत्र मध्यमबुद्धिचरि| तम्। ॥७७॥
Jain Educati
For Private & Personal Use Only
Haw.jainelibrary.org