SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ तच्छृण्वतोगुरोर्वाक्यं, तयोर्देवीसुपर्वणोः। मोहजालं प्रविध्वस्त, जाता सम्यक्त्ववासना ॥१०८॥ अत्रान्तरे तयोर्दैहात् , कृष्णरक्ताणुसंचयैः । निर्गता भीषणाकारा, घटितैका नितम्बिनी ॥१०९॥ सा च भागवतं तेजोऽसहन्ती पर्षदो बहिः । गत्वा पराङ्मुखीभूयावतस्थे दुःखिताशया ॥११०॥ अथोत्थायावदद् देवः, सप्रियो भगवन्नहम् । कथमस्मान्महापापान्मुच्ये प्रोचे मुनीश्वरः ॥१११॥ नायं भो! भवतोर्दोषः, किन्त्वस्याः पापयोषितः । काऽसाविति गुरुः पृष्टः, प्राहामृतकिरा गिरा ॥११२॥ भद्रौ ! विषयतृष्णेयं, दुर्जया त्रिदशैरपि । रजनीव तमिस्रस्य, सर्वदोषततेः पदम् ॥११३॥ शुद्धस्फटिकसंकाशी, स्वरूपेण युवां पुनः । एषैव सर्वदोषाणां, कारणत्वेन संस्थिता ॥११४॥ इह स्थातुमशक्तेति, दूरमेषा स्थिताऽधुना । भवन्तौ मत्समीपाच्च, निर्गच्छन्तौ प्रतीक्षते ॥११५।। तौ प्रोचतुः कदा स्वामिन् !, मोक्षो नौ भविताऽनया । गुरुः प्राह भवे नात्र, परं भावी भवान्तरे ॥११६॥ किन्तु सम्यक्त्वमाहात्म्याद् , नात्यन्तं नौ विवाधिका । प्रतिपन्नं ततस्ताभ्यां, सम्यक्त्वं मोक्षसौख्यदम् ॥११७॥ ऋजुराद् प्रगुणा देवी, स मुग्धोऽकुटिला तथा । अथो विज्ञपयामासुगुरुं स्वस्वविडम्बनाम् ॥११८।। अत्रान्तरे तदङ्गेभ्यो, निर्गतैः परमाणुभिः। घटितं वर्णतः श्वेतं, डिम्भमेकमदम्भकम् ॥११९॥ रक्षितानि मया गयं, वाणमिति चोच्चकैः । पश्यद्गुरोमुखाम्भोज, सर्वेषां पुरतः स्थितम् ॥१२०॥ युग्मम् । द्वितीयं कृष्णवर्णाभ, डिम्भं तदनु निर्ययौ । ततो जातं महाकृष्णं, डिम्भरूपं तृतीयकम् ॥१२॥ Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy