________________
श्रीधर्मरत्नप्रकरणम्
वृद्धानुगतत्वाख्योगुणः १७
॥७६॥
प्रिये ! गच्छ पुरो यावद् , भूपालोपवनादितः । पुष्पाण्यादाय पूजार्थमेष आयामि सत्वरम् ॥१४॥ सङ्केतं च तयोर्ज्ञात्वा, विभङ्गेन सुरः क्षणात् । विधाय मुग्धरूपं स्वं, पुष्पै त्वाऽथ सूर्पिकाम् ॥९५।। आगादकुटिलापार्थे, जिताऽसि त्वं प्रिये ! भणन् । विषण्णां तां च सम्भाष्य, निनाय कदलीगृहे ॥१६॥ एवं विचक्षणाऽप्याश्वकुटिलारूपधारिणी । प्रतार्य मुग्धकं निन्ये, तदैव कदलीगृहे ॥१७॥ तद्वीक्ष्य मुग्धधीर्मुग्धो, वितर्काकुलितोऽजनि । बभूव विस्मयस्मेराऽकुटिलाऽकुटिलाशया ॥९॥ दध्यौ देवाङ्गना केयं, द्वितीया ? हुँ मम प्रिया । तत्परस्त्रीकृतासङ्गं, हन्म्येनं पुरुषाधमम् ।।९९।। स्वैरिणी दयितां चेमा, पीडयामि दृढं तथा । असौ यथा नरेऽन्यत्र, विधत्ते न मनोऽपि हि ॥१०॥ यद्वा स्वयं सदाचारभ्रष्टस्य मम नोचितम् । कर्तुमेतादृशं कर्म, तद्वरं कालयापना ॥१०१॥ ध्यात्वा विचक्षणाऽप्येवं, कालक्षेपपराऽभवत् । क्षणं प्रक्रीड्य तत्रागात, स्वगेहे तच्चतुष्टयम् ॥१०२॥ तद् दृष्ट्वा सप्रियो राजा, प्रीत आख्यादहो सुतः। वधूश्च मे द्विगुणिता, वनदेव्या प्रसन्नया ॥१०३॥ सकलेऽपि पुरे हर्षान्महोत्सवमचीकरत् । तेषां चतुर्णामप्येवं, ययौ कालः कियानपि ॥१०४॥ अथ तत्र पुरे मोहविलयाख्ये सुकानने । मूरिः प्रबोधको नाम, ज्ञानवान् समवासरत् ॥१०५॥ अथ लोका नरेन्द्राद्या वन्दनायै मुनीशितुः । निर्ययुगवांस्तेभ्य इति, चक्रे सुदेशनाम् ॥१०६॥ शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामार्थनापरा जीवा, अकामा यान्ति दुर्गतिम् ॥१०७॥
तत्र मध्यमबुद्धिचरि
तम्। ॥७६॥
en Education Intern
For Private 3 Personal Use Only
www.jainelibrary.org